________________
॥ श्रीन्यायसिन्धुः ॥
संयोगखण्डनमपि प्रथितं त्वया यत्, तत् तार्किकस्य मतमेव निराकरोतु । पर्यायताऽस्य कथिता ननु येन तस्मिन्, स्याद्वादवादिनि कथं तव दोषपोषः ।।११९।। संयोगिनोऽत्र परमाणव एव किं स्युः, संयोगहेतव उतेतरथाऽऽद्यपक्षे । संयोगकल्पनमनर्थकमेव तेषां, संयोगिता प्रथमतो ननु यत् प्रसिद्धा ।।१२०।। द्वैतीयके तु किमु सातिशयास्तथा स्युः, किं वा न तेऽतिशयतश्च विशिष्टरूपाः । आद्येऽन्यतो यदि तु सातिशयत्वमेषां, किं नाऽनवस्थितिलतापरिवेष्टनं स्यात् ।।१२१ ।। स्वस्माद्धि चेद् यदि तदा त्वविशेषतः किं, देशान्तरस्थितिमतामपि तद्भवेन्नो । दोषादतोऽतिशयशून्यतयाऽपि नैषां, स्वीकारपक्ष उपपद्यत एव युक्त्या ।।१२२।। अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं, तद्वत्त्वतोऽणुषु कथं नहि सांशता स्यात् । इत्यादिदोषघटना जिनसम्प्रदाये, स्याद्वादलाञ्छिततनौ न भवेच्च तस्मिन् ।।१२३।। संयोगवद् विभजनं च तथैव सिद्धं, नो द्रव्यतस्तदुभयं व्यतिरिक्तमेव । तत्कारणं भवति कर्म तथैव तस्मात्, किं नो विशिष्टमतिरक्षभवा ततो नः ।।१२४।। कर्मोद्भवो भवति नो क्षणिकत्वपक्षे, स्थैर्य भवेदपि न स प्रमितस्तु पक्षः । इत्यादि यत्पुनरिहाऽभिहितं त्वया तत्, स्यादेव तार्किकभयस्य निदानभूतम् ।।१२५।। नो नः क्षणक्षयतयाऽभिमताः पदार्था, एकान्ततो न च तथा स्थिरतालयाश्च । स्याद्वाद एव ननु तत्र निरस्तदोषः, कर्मादिभूतिफलकोऽभ्युपगन्तुमर्हः ॥१२६।। यस्माद् भवेन्न च निरन्वयमेव जन्म, तस्मात् कथं क्षणिकपक्षकृतादरस्त्वम् । पूर्वापरक्षणगताश्च विभिन्नधर्मा - ध्यासात् कथं स्थिरतयैव तथोपगम्याः ।।१२७।। यच्चैकदा भवति यज्जनने समर्थं, तत् सर्वदेति नियमेन प्रसङ्गतो यत् । सामर्थ्यतद्विरहरूपविरुद्धधर्मा - ध्यासान्मतं क्षणिकतानियतं च सत्त्वम् ।।१२८।। अर्थक्रियाजनकतैव मताऽत्र सत्ता, तस्या बलात् क्षणिकता तव सर्वभावे । एतद् द्वयं ननु विचारसहं न यस्मा - नैयायिकैरपि कृता स्थिरताव्यवस्था ।।१२९।। एकं न किञ्चिदपि कारणमर्थकारि, सामग्र्यमेव जनकं तत एव कार्यम् । यस्मात् ततस्तु सहकारिसहायतोऽर्थं, कुर्युर्न कुर्युरपि तद्विरहात् पदार्थाः ।।१३०।। किं वा यथाऽत्र करणाकरणे न काल - भेदे स्थिरे भवत एक पदार्थनिष्ठे । एते तथैव भवतो ननु देशभेदे - ऽप्येकत्र धर्मिणि कथं क्षणिकेऽपि बौद्ध! ।।१३१।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org