________________
॥ श्रीन्यायसिन्धुः ॥ द्वैतीयके न नियमोऽविनिगम्यभावात्, सर्वस्य किं सकल एव ततो न वृत्तिः । युक्तिः समैव समवायनिराक्रियाया - मेषा विशुद्धमतिभिः स्वयमेव चिन्त्या ।।१०६।। वायौ न किं भवति रूपविशिष्टबुद्धि - रेको विभुश्च समवाय इहेष्यते यत् । सम्बन्धसत्त्वनियतैव मतार्थसत्ता, नो चेत् तदा भवतु तस्य प्रयोजनं किम् ।।१०७।। स्याच्चेन्न रूपप्रतियोगिक एष वायौ, वाच्यस्तदा विनिगमो ननु कोऽपि येन | भूम्यादिकेऽस्ति स तु नो पवनादिभावे, ज्ञानाद् व्यवस्थितिरियं च न युज्यते ते ।।१०८।। वायौ हि रूपविरहस्य मतिस्तवेष्टा, सा रूपबुद्धिजनितैव न रूपबुद्धेः । आरोपतावगतिरस्ति विनैव रूपा - भावप्रमाप्रमितिमित्यवधारणीयम् ।।१०९।। चेल्लाघवात् तव प्रथा यदि तस्य तर्हि, नाऽस्त्येव तच्च बुध ! तद्व्यतिरिक्ततायाम् । द्रव्यादिभेदघटनादिप्रकल्पनेन, यद्गौरवं भवति तत्र तदात्मतातः ।।११०।। तादात्म्यतो भवति जातिविशिष्टबुद्धि - स्तादात्म्यमत्र तु कथञ्चिदनन्यतैव । तस्मात् कथं कथय बौद्ध ! विकल्पबुद्धि - रक्षोद्भवाऽपि किमु नैव प्रयाति सिद्धिम् ।।१११।। नो सर्वथाऽवयवतो व्यतिरिक्त एव, स्थूलो घटाद्यवयवी जिनसम्प्रदाये । भिन्नस्ततोऽथ च कथञ्चिदयं ततः किं, तस्माद् विशिष्टमतिरक्षभवा न तस्मिन् ।।११२।। अंशेन वृत्तिरुत किं निखिलात्मनांऽशे, त्वत्सम्मतावयविनोऽप्यथवा न साऽस्ति । इत्यादिदोषभयतो व्यतिरिक्ततैव, स्यात् सर्वथाऽक्षिचरणानुमताऽस्य लुप्ता ।।११३।। सोऽनन्तशक्तिकतया च भवेदनन्त - धर्मा ततोऽवयवसङ्घसमाश्रितोऽपि । किञ्चिच्चलत्यपि न गच्छति संस्थितोऽपि, नो स्थैर्यवान् भवति चित्रमचित्ररूपः ॥११४।। देशेन दृष्ट इह नैव भवेच्च दृष्टो, देशावृतोऽपि तदनावृत एष इष्टः । रक्तोऽप्यरक्त इह नैव विरोधचर्चा - ऽनन्तस्वभाववति वस्तुनि मानसिद्धे ।।११५।। नाऽस्य प्रथा भवति वा परमाणुपुञ्जाद्, यस्मान्महत्त्वमणुषूपगतं त्वया नो । संयुक्तताऽपि न च तेषु तव प्रसिद्धा - ऽदृश्याणुपुञ्जजनितं न च दृश्यपुञ्जम् ।।११६।। रूपादिभिन्नमिह नैव समस्ति किञ्चिद्, द्रव्यं त्वयेति कथितं नहि तच्च युक्तम् । दृष्टं स्पृशामि कनकादि स एव चाऽह - मित्यादिका मतिरुदेति न तद्विना यत् ।।११७।। स्पर्शो न नेत्रविषयो न च रूपमिष्टं, त्वग्गोचरं कथय कस्य भवेत् तथा धीः । द्रव्यं तदाश्रयतयाऽभ्युपगम्यते चेत्, तत्र द्वयोरपि तदा विषयत्वशक्तिः ।।११८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org