________________
॥श्रीन्यायसिन्धुः ॥
एवं हि दोषसमुदायसमर्थनेन, नैयायिकस्त्यजतु तामतिरिक्तभावाम् । जैनो न किं शबलवस्त्वनुरक्तबुद्धि - स्तां स्वीकरोतु विशदप्रतिभाससिद्धाम् ।।९३।। यस्मात् कथञ्चिदिह जायत एव जाति - र्व्यक्त्युद्भवेऽपि तदनन्यतया तथा सा । तन्नाशतो लयवती धुवभाविनी च, नैतत् त्रयं हि विरहय्य मताऽत्र सत्ता ।।९४।। सा चोर्ध्वता जिनमते प्रथिता च तिर्यक्, स्वद्रव्यमेव प्रथमानुगता घटादौ । साधारणी परिणतिस्तु भवेद् द्वितीया, पूर्वा त्रिकालगमनेयमनल्पदेशा ।।९५।। सामान्यमत्र न विशेषपृथक्स्वरूपं, नो वा स भिन्न इत इष्यत आहेतैर्यत् । एकान्ततोऽपृथगपीह मतं द्वयं नो, जात्यन्तरं भवति तज्जिनसम्प्रदाये ।।९६।। व्यावृत्तिबुद्धिरथ चाऽनुगतत्वबुद्धि - स्तद् वस्तुतो भवति नो समवाययोगात् । तादात्म्यमेव यत आहेततत्त्ववादे, संसर्गताश्रयतयाऽभिमतं कथञ्चित् ।।९७।। भिन्ने हिमे भवति नैव हि विन्ध्यवृत्ति - नॊ वा घटस्य घट एव घटा प्रसिद्धा । तादात्म्यता भवति तेन भिदानुविद्धा, संसर्गमात्रनियता जिनसम्प्रदाये ।।९८।। संयुक्ततापरिणतेस्तु बलादभेदो, द्रव्यद्वयस्य खलु भेद इह स्वरूपात् । तादात्म्यमेव ननु भेदयुतं ततोऽत्र, संयुक्तयोरपि मतं जिनतन्त्रविज्ञैः ।।९९।। एकान्ततोऽक्षचरणानुमतो विभिन्नो, योगो विकल्पमुखजर्जरितस्वरूपः । भिन्ने स किं भवति किं नु भवेदभिन्ने, जात्यन्तरे भवति वा न गतिश्चतुर्थी ।।१००।। आद्ये भवेद् वद कथं न हिमेऽपि विन्ध्य - वृत्तिस्ततो बुधमता तव सम्प्रदाये । चेत् कार्यकारणसमाश्रयणेन नाऽयं, दोषस्तदा भवतु नो मतसिद्धिरेव ।।१०१।। यः सर्वथा भवति सन् न च तस्य जन्म, नो वाऽसतो भवति हेतुबलात् तथा तत् । जात्यन्तरस्य तु भवेदपि ते मतं न, तत्त्वे विवाद इह नैव भवेन्मया ते ।।१०२।। पक्षे द्वितीय इह किं न घटादयः स्युः, स्वात्माश्रिता वद ततो न च सोऽपि युक्तः । अन्त्ये विवादविलयो बुध ! जैनतत्त्वे, श्रद्धा त्वयाऽपि कपटात् प्रकटीकृता यत् ।।१०३।। संसर्ग एष तव किञ्च मते मतोऽस्ति, संसृष्टरूप उत वा विपरीत आद्ये । स्वस्मात् स चेद् यदि तदा न तमन्तराऽपि, किं द्रव्ययोरपि तवाऽनुमतः स विद्वन्! ।।१०४।। चेदन्यतो ननु भवेदनवस्थितिस्ते, तस्याऽपि सम्भवति सोऽन्यत एव यस्मात् । नेष्टाऽनवस्थितिरियं न हि मानसिद्धा, तामन्तराऽपि गतिरस्ति यतः स्वरूपात् ।।१०५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org