________________
॥ श्रीन्यायसिन्धुः ॥ स्वात्मप्रतिष्ठितमिदं जगदेव नो वै, वृत्तिः परस्य परधर्मिणि सम्प्रसिद्धा । तत्त्वेऽनवस्थितिलतापरिवेष्टनं स्या - नो भूतलाश्रितघटादिमतिस्ततोऽपि ।।८०॥ यश्चाऽणुदेश इह येन विशिष्ट इष्टो, नो तस्य नेत्रघटनाऽपि तदावृतत्वात् । योऽनावृतः स तु न तेन भवेद् विशिष्टो, देशादितोऽपि न विशिष्टमतिस्ततोऽक्षैः ।।८१।। किञ्चाऽक्षयोगविमुखानपि भावसार्थान्, प्रत्यक्षबोध इह चेदवगाहते ते । किं नो भवेदखिलतत्त्वप्रकाशिका धीः, सर्वज्ञवत् सकलसत्त्वसमाश्रिताऽपि ||८२॥ पूर्वादिके यदि तु सन्निधिमन्तरा ते, त्वक्षोत्थबोध उपपद्यत एव तर्हि । कस्मादनागतविनष्टपदार्थसार्थे - ऽध्यक्षा मतिर्भवति नैव तथैव भिन्ने ।।८३।। तस्माद् विशेषणमिहाऽथ विशेष्यमाभ्यां, संसर्गमज्ञजनता प्रथमं प्रकल्प्य ।
बोधं विशिष्टविषयं मनुते ततः किं, प्रत्यक्षताद्युपगमोऽपि भवेच्च तस्य ।।८४।। बौद्धमतखण्डनम् -
एतन्न चारु सुगतानुगदर्शितं यत्, सर्वं पलालनिकरस्य समं विभाति । स्याद्वादलाञ्छितपदार्थमहेन्धनेद्ध - बोधाग्निना सममुपैति न च प्रतिष्ठम् ।।८५।। नाऽत्राऽक्षजस्त्वभिमतो निखिलोऽर्थबोधः, शब्दान्वितार्थविषयस्तव येन दोषः । अन्योन्यसंश्रयभवस्मरणेन जन्ये, शब्दावगाहिनि भवेन्नयनोत्थबोधे ।।८६।। जातिः समानपरिणामतया त्वयाऽपि, जैनैरिवैक्यमतिविभ्रमवादिनेष्टा । मन्तुं तथा विधिमुखस्य न प्रत्ययस्य, तुच्छावगाहनतयोपगमोऽपि युक्तः ।।८७।। नाऽपोह एव तव जातिपदाभिषिक्तः, स्यात् तां विनाऽनुगतबुद्धिभवे समर्थः । भेदद्वयाकलितमूर्तिरयं यतस्ते - ऽगोऽन्यत्वरूप इह सम्मत आगमन ।।८८।। गोव्यक्तिभेद उत किं सकलस्य गोर्वा, भेदो निविष्ट इह न प्रथमोऽत्र युक्तः । तत्त्वे हि गोष्वपि परस्परभिन्नभावाद्, गोभिन्नतैव न गवान्यविभिन्नता स्यात् ।।८९।। पक्षो द्वितीय इह तेऽनुमतो यदि स्या - ज्जातिस्तदा स्वरसतस्तत एव सिद्धा । जातिं विनाऽखिलगवप्रतियोगिकस्य, भेदस्य निर्वचनमेव न शक्यते यत् ।।९०।। तत्राऽप्यपोहघटना यदि ते मता स्यात्, किं नाऽनवस्थितिघटा परितस्तदानीम् । जातिर्न तार्किकमताऽत्र मते ततो न, त्वद्दोषभीतिरपि सम्भविनीति विद्धि ।।९१।। स्थानं जहाति नहि पूर्वमितस्तथा वा, नाऽन्यत्र गच्छति न वाऽशवती न जन्या । तद्देशवृत्तिकलिता न च तत्कुतः सा, गोव्यक्तिमात्रनियताऽभ्युपगन्तुमिष्टा ।।९२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org