________________
॥ श्रीन्यायसिन्धुः ॥
किञ्चाऽक्षजाऽत्र सविकल्पकबुद्धिरेव, नेष्टा कुतो भवतु येन निरंशबुद्धेः ।
तद्वारतो नियतगोचरमानता ते, मानप्रसिद्धिपदवीमवलम्बमाना ।।६७।। सविकल्पकखण्डनरूपो बौद्धपूर्वपक्षः -
नन्वत्र बुद्धतनया विविधैर्विकल्पै - दुःसन्दिहानमनसः प्रतिबोधनीयाः । यस्माद् विना नहि विशेषणगोचरत्वं, बुद्धौ मते तव विशिष्टमतित्वमिष्टम् ।।६८।। शब्दो विशेषणतया नहि भासतेऽर्थे - ऽध्यक्षान्न शाब्दिकमतं तत एव युक्तम् । शब्दो न नेत्रविषयो न स वर्ततेऽर्थे, न व्यापको न च ततोऽभिमतो ह्यभिन्नः ।।६९।। स्मृत्याऽपि तस्य नयनोत्थमतौ प्रकाशो - ऽन्योन्याश्रयेण नहि युज्यत एव यस्मात् । उद्बोधकाक्षजधियः स्मरणस्य जन्म, तस्माच्च सेति न भवेदुभयप्रसिद्धिः ।।७०।। जातिः समानमतितो न च सम्प्रसिद्धा, साऽपोहगोचरतयैव यतः प्रसिद्धा । तद्वत्त्वतोऽपि न विशिष्टतया घटादौ, बोधोदयो भवति गौतमतन्त्रसिद्धः ।।७१।। नो युज्यते त्ववयवी व्यतिरिक्त एकः, स्थूलस्ततोऽपि न विशिष्टमतेर्विलासः । द्रव्यं गुणाधिकरणं न च विद्यतेऽत्र, तस्मात् कथाऽपि न विशिष्टधियोऽक्षजायाः ।।७२ ।। बुद्धिघटादिविषया परमाणुपुञ्जाद, द्रव्यं न कोऽपि विषयीकुरुतेऽक्षमध्ये । रूपादयो हि नयनादिमतौ प्रथन्ते, द्रव्याणि नैव तु तदन्यतयेति विज्ञाः ।।७३।। संयोजनं विभजनं च पृथङ् न चाऽस्ति, भावादिहाऽणुनिचयात् कुत एव ताभ्याम् । कर्मप्रसिद्धिरपि येन विशिष्टबोध - स्तद्वत्त्वतोऽक्षजनितोऽनुमतो बुधानाम् ।।७४।। स्थैर्ये तथाऽस्य जननं च भवेत् कथञ्चि - नो वै क्षणक्षयमते सुगतानुगानाम् । अर्थक्रियादिघटना मत एव तस्मिन्, स्थैर्यं त्वविज्ञजनतानुमतं न युक्तम् ।।७५।। पूर्वापरादिविगतं खलु वर्तमान - मेवाऽक्षसन्निधिबलाद् विशदावभासे । बोधे परिस्फुटवपुः प्रथते न चाऽन्यत्, पूर्वादितोऽपि तत एव विशेषणं नो ।।७६।। दण्डीति बुद्धिरपि चाऽक्षसमुद्भवत्वे, किं नो भवेन्नियमतो वद सर्वपुंसाम् । येनैव दण्डसहकारिबलात् समर्थो, दृष्टोऽत्र किन्तु पुरुषो ननु तद्गतैव ।।७७।। दण्डस्तथा न च विशेषणमेव पुंस - स्तस्याऽपि किन्तु स विशेष्यतया मतोऽत्र । पुंसा तु येन पुरुषोपकृतेन दण्डे - नाऽऽलक्षितः फलभवो ननु तेन किं न ? ।।७८।। चेद् वस्तुतो यदि विशेष्यविशेषणत्वे, नैतादृशो विनिमयो भविता तदानीम् । तस्माद् विशिष्टमतिरक्षसमुद्भवा नो, युक्ता निरंशमतिरेव ततोऽर्थतश्च ।।७९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org