________________
॥ श्रीन्यायसिन्धुः ॥ तस्याऽनुरूपसविकल्पकबोधतश्चेत्, सिद्धिस्तदा किमनवस्थितिरत्र ते नो । तस्मात् त्वयाऽनुमितितोऽत्र निरंशवुद्धेः, स्यात् साधनं तदपि नैव विचारमार्गे ।।५४।। यज्जायतेऽत्र सविकल्पकवुद्धिकाले, तनिर्विकल्पकमिति प्रमिता यदि स्यात् । व्याप्तिस्तदाऽक्षजधियोऽनुमितिप्रसिद्धं, स्यान्निर्विकल्पकमतित्वमिमां विना नो ।।५५।। तत्राऽश्वकल्पनधियः समये त्वयोक्ता, बुद्धिर्गवादिविषया नियमप्रसिद्ध्यै । दृष्टान्तभावममलं प्रतिपद्यते नो, सिद्धिर्यतो न सुगतानुमताऽपि तस्याः ।।५६।। दृष्टा यदैव विपिने भ्रमता मया गौ - रश्वस्तदैव विदितोऽनिलतुल्यवेगः । इत्यादिका स्मृतिरिहाऽभिमता प्रमाणं, यस्मान्न साऽपि सविकल्पकमन्तरा स्यात् ।।५७।। अभ्यासपाटवप्रसङ्गवशाद् यदि स्या - दर्थित्वतोऽथ च निरंशमतेः स्मृतिस्ते । किं न क्षणक्षयधियोऽप्यविकल्पिकायाः, स्यात् तत्स्मृतिः सुगतशिष्य ! तदोक्तहेतोः ।।५८।। सामर्थ्यतद्विरहसङ्घटनाऽपि तस्याः, स्यात् ते कथं वद निरंशमतित्ववादिन्!? । येन त्वयोपगतमप्यनुमोदितं स्या - देकत्र सा तदितरत्र न सेति वाक्यम् ।।५९।। स्मृत्युद्भवाद् भवति सा सविकल्पिकैव, तस्या न जन्म सविकल्पकजन्मकाले । तस्मात् कथं कथय सौगत ! तेऽनुमानं, स्यान्निर्विकल्पकमतिप्रमितौ समर्थम् ? ।।६०।। मानान्तरं न च तवोपगतं यतः स्यात्, तस्याः प्रसिद्धिरिति जैनमतं प्रमाणम् । पूर्वोक्तलक्षणयुतं न कुतोऽपि वाधां, प्राप्नोति न त्वदुपदर्शितमत्र मानम् ।।६१।। यस्मात् स्वलक्षणमतित्वमनंशबुद्धौ, स्वप्नेऽपि कस्यचिदिह प्रथते न चैव ।
तत्पारमार्थिकमिदं शपथैकगम्यं, मानत्वलक्षणमविज्ञजनोपगम्यम् ।।६२ ।। बौद्धोक्तनिर्विकल्पकप्रामाण्यापाकरणम्
अर्थोपदर्शकतयाऽथ निरंशबोधो, मानं विकल्पनधियो जननात तथा च । द्वारं सदेव सविकल्पकमत्र मानं, क्लृप्तं निरंशमतितो व्यवहारकाले ।।६३।। यद्यर्थगोचरतयाऽभिमतो विकल्पः, स्यात् तर्हि तस्य जननादुपदर्शिका धीः । यस्मान्न संशयविपर्ययकारणं धी - निं तथा च सविकल्पकमेव तत्त्वम् ।।६४।। सामान्यगोचरतया यदि मानताऽस्य, सद्गोचरत्वविगमान्न तव प्रसिद्धा । व्यापारताऽपि तत एव निरंशबुद्धेः, स्यादस्य नैव विपरीतमतेरिवाऽर्थे ।।६५।। नो दृश्यकल्प्यविषया मतिरस्ति काचिद्, भेदेऽप्यभेदघटनाऽत्र यया भवेत् ते । नाऽऽरोपितो भवति कोऽपि प्रभुः क्रियायां, तृष्णा कृशा भवति किं मृगतृष्णिकातः ।।६६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org