________________
॥ श्रीन्यायसिन्धुः ॥ प्रमाणलक्षणे बौद्धोक्तदोषपरिहारः -
स्वार्थावगाहि सविकल्पकमत्र सिद्धं, ज्ञानं प्रमाणमिति तत्र तिरस्क्रियां ये । कुर्वन्ति तेऽत्र सुगतानुचरा न जैनैः, किं खण्डिताः स्वमततत्त्वविचारणायाम् ।।४१।। सङ्क्षपतस्तु परकीयमतप्रपशू, प्रोद्भाव्य खण्डनमिहाऽस्य भवेत् तु युक्तम् । न ह्यन्यदीयमतखण्डनमन्तरा य - च्छ्रद्धास्पदं भवति तच्च परीक्षकाणाम् ।।४२।। अक्षोद्भवं भवति वस्त्ववगाहि पूर्व, ज्ञानं विकल्पनधियः पृथगेव तस्मात् । सामान्यगोचरमतिः सविकल्पिका ता - माश्रित्य तद् भवति मानमिमां विना नो ||४३।। लिङ्गोद्भवं तु सविकल्पकमेव तच्च, सामान्यगोचरतयाऽपि भवेत् प्रमाणम् । अर्थोद्भवत्वमिह यत्खलु निर्विकल्प - द्वारा प्रमात्वगमकं च परम्परातः ।।४४।। प्रामाण्यमत्र परमार्थत उक्तमेभिः, सद्गोचरत्वमथ सांव्यवहारिकं तु । संवादकत्वमत एव भवेच्च तस्य, ज्ञानान्तरादधिगतिर्न मते स्वतोऽस्मिन् ।।४५।। संवादकत्वमपि तत्र प्रवर्तकत्वात्, तत्प्राप्तिकारकतयाऽभिमतं च साऽपि । अर्थोपदर्शकतया तत एव बौद्धै - रिं विकल्पकमनंशमतेर्मतं च ।।४६।। तेनाऽऽगतं प्रमितिलक्षणमुक्तमत्र, जैनैर्न सर्वगमनंशमताववृत्तेः । नो निर्विकल्पकमतिर्व्यवसायरूपा, यस्मात् तथा यदि तदा न निरंशताऽस्याः ।।४७।। एतन्न युक्तमिह यद् भवति स्वरूप - निश्चायकं जिनमते ननु लक्षणं तत् । प्रामाण्यलक्षणमिदं च तथैव मान - त्वस्य व्यवस्थितिपरं न तदन्यथा तत् ।।४८।। तल्लक्षणं स्वयमनिश्चितरूपमेव, लक्ष्यव्यवस्थितिपरं न भवेत् ततोऽस्य । सिद्धिः पराभिमतमानत एव वाच्या, मानत्वमस्य गमकं खलु लिङ्गभावात् ।।४९।। एवं स्थितौ भवति वाधतयैव दोषो - ऽव्याप्तिः परेण कथिता न तु सोऽत्र युक्तः । प्रत्यक्षतो भवति किं त्वनुमानतो वा, बाधो न तत्र प्रथमस्तव कल्पनार्हः ।।५०।। नो निर्विकल्पनधियोऽक्षमतिर्भवेन्नो, नाऽस्मद्विशिष्टजनुषामपि सा प्रसिद्धा । संवेदनं स्वत इह प्रमितौ समर्थं, नो सम्मतं क्षणिकताद्यनुमाप्रणेतुः ।।५१।। यस्मात् क्षणक्षयितया सकलाक्षबुद्धि - नीलादिकं तु विषयीकुरुते मतेऽस्मिन् । सा साधयेद् यदि विकल्पमतिं विनाऽर्थं, सत्त्वेन कः क्षणिकतानुमया तवाऽर्थः ।।५२।। स्यात् स्वानुरूपसविकल्पकसंविधाना - न्मानत्वमस्य न च सोऽप्यनुभूयमानः । संवेदनात् स्वत इहाऽपि यदि प्रसिद्धिः, किं स्यात् तदा क्षणिकताऽवगता न तेन ||५३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org