________________
४
ज्ञानस्य धीरपि भवेन्न परप्रकाशे यस्माद् विशेषणमतिर्जनिका मता ते । पूर्वं विशिष्टमतितः प्रकृते तु तस्या, नो सम्भवो भवति दोषवितानयोगात् ||२८|| अर्थे यतोऽक्षघटना प्रथमक्षणे स्याज्ज्ञानं घटादिविषयं तदनन्तरं ते । पश्चात् ततो मतिमतिर्ननु निर्विकल्पा, तस्माद् विशेषणमतेस्तु विशिष्टबुद्धिः ||२९|| एषा क्षणद्वयगते न विशेषणे स्याज्ज्ञाने विशेषणमतेः समयेऽप्यवृत्तौ । प्रत्यक्षबुद्धिजनको विषयो मतो यत् तत्कार्यकालगत एव न चाऽन्यथाऽपि ||३०||
तत्ताविशेषणमपि प्रथते विनैव सत्त्वं तथैव प्रकृते यदि सम्मतं ते । ज्ञानं यति वद बोधविशेष्यिका धीः कस्मात् तदाऽपि भवितेति बुधाग्रगण्य ! ||३१||
॥ श्रीन्यायसिन्धुः ॥
आत्मा हि यद्यपि विशेष्यतया प्रधानो, ज्ञानस्य बोधविषयत्वविवक्षणेऽस्ति । अर्थस्तथाऽपि विषयोऽत्र प्रधान एव, यत्नादिकार्यजनने स्वविवक्षया स्यात् ||३२|| एतेन यैरनुमितिस्त्विह लिङ्गबुद्धे - मुख्यत्वसंवलितपक्षविशेष्यतातः । उक्ता स्वतः प्रमितिभाननिराक्रियार्थं, ते खण्डिता अपसरन्तु विचारमार्गात् ||३३|| अस्वप्रकाशविगमस्तु निजप्रकाशो, ब्रह्मात्मवोधगत इत्यभिमन्यमानाः । वेदान्तिनो विधिमुखस्वप्रकाशकत्व स्वीकर्तृजैनविमुखा इति भिन्नमार्गाः ||३४|| वृत्तेस्तु यद्यपि मते स्वत एव भानं तेषां तथाऽपि न जिनागमनीतितस्तत् । यस्माच्च तैर्विषयदेशगतिं प्रकल्प्य, प्रोक्ता हृदः परिणतिर्विषयस्वरूपा ||३५|| वेदान्तिनामिव न कापिलनीतिभाजां ज्ञानप्रकाश इह आर्हतवीथिगानाम् । इष्टो यतो न जड एव भवेत् प्रकाशो, नो वाऽस्ति बिम्बप्रतिबिम्बविकल्पनं सत् ||३६||
-
Jain Education International
साङ्ख्यैर्मतं तु विषयप्रतिबिम्बनं हि नेत्रे तथाऽस्य हृदि तस्य प्रधानवुद्धौ । द्वारं त्वहङ्कृतिरपि प्रथितस्तयाऽऽत्मा, कूटस्थनित्य इह बिम्वनतस्तु तद्वत् ||३७|| tas पि धियं स्वत एवं भास्यां, बूते तथाऽपि न जिनागमसिक्तचित्तः । संवेदनं न सविकल्पकमिष्टमस्य, स्वस्माद्धि प्रकटयन्ति जिनानुगास्तु ||३८|| वैशेषिकोऽक्षचरणश्च धियं वदन्तौ, भास्यां परैर्न जिनदर्शितमार्गनिष्ठौ । भट्टो मुरारिरपि नाऽत्र तथा वदन्तौ, ज्ञानं ह्यतीन्द्रियमनुव्यवसायगम्यम् ||३९|| इत्थं प्रसिद्धिपदवीं स्वत एव प्राप्तं ज्ञानं न मानमतिरिक्तमपेक्षते नः । स्याद्वादलाञ्छितपदार्थप्रथासमर्थं तद्गोचरत्वत इति प्रवदन्ति जैनाः || ४०॥
For Private & Personal Use Only
www.jainelibrary.org