________________
॥ श्रीन्यायसिन्धुः ॥
एतेन लौकिकविशेषणसंविधानाद्, योगीश्वरप्रमितिवारणमप्यपास्तम् । साक्षात्करोम्यनुभवस्य बलाद् बुधैर्य - दोषोद्भवेऽप्यभिमतं ननु लौकिकत्वम् ।।१५।। न प्राप्यकार्यभिमतं नयनं ततो नो - ऽध्यक्षा मतिर्भवति हीन्द्रियसम्प्रयोगात् । स्पष्टत्वमेव विवुधैर्जिनतन्त्रविज्ञैः, स्पष्टीकृतं तदिह लक्षणमस्य युक्तम् ।।१६।। तेनेन्द्रियार्थघटनाप्रभवत्वमस्य, स्वीकृत्य यैरिह निरूपितमन्यबुद्धेः । ज्ञानस्य भानमिति तेऽपि विचारमार्गाद्, दूरीकृता विशदयन्तु कथं प्रतिष्ठाम् ।।१७।। योग्यत्वमिन्द्रियनिरूपितमेकमत्र, यैौकिकत्वकलिताद् विषयत्वतोऽथ ।। आश्रित्य मानसभवं कथितं नु बोध - ज्ञानं न तेऽपि सुधियो विबुधाग्रगण्याः ।।१८।। यस्मान्महेशमतिगोचरवृत्तियोगाद्, दोषोत्थधीविषयवृत्तिसमन्वयाच्च । व्याप्तिर्न दर्शितपदे न तथाऽनुकूल - स्तर्को विपक्षविमुखीकरणे समर्थः ।।१९।। किञ्चेन्द्रियार्थघटनैव यदि त्वदिष्टा, प्रत्यक्षवुद्धिजनिका भविता तदानीम् । गन्धेऽपि चाक्षुषमतिर्न कथं रसादौ, घ्राणोद्भवा मतिरियं ह्यखिले समाना ।।२०।। किं वा न मानसमतिस्तत एव धर्म - ऽधर्मे च वोध इव ते समुदेति तस्मात् । योग्यत्वमेव प्रतिवस्तु विलक्षणं च, स्वीकर्तुमिष्टमिति तर्कविदां सुपन्थाः ।।२१।। एतेन चाक्षुषमतौ प्रतिवन्धकाः स्यु - र्गन्धादयो न हि मतिस्तत एव तेषाम् । धर्मादि मानसमतौ च ततो न तस्ये - त्येवं परस्य कथनं न तिरस्कृतं किम् ।।२२।। एकेन्द्रियस्य विषयावपि कर्मरूपे, योग्ये च चन्द्रमसि येन भवेत् प्रकाशः । रूपे न कर्मणि तव स्वयमेव किं नो, जिज्ञासया वुध ! भविष्यति सत्प्रकाशः ।।२३।। ज्ञेये मतौ मतिमति प्रविभक्तमेव, योग्यत्वमिष्टमिह जैनमतानुगानाम् । कार्येकगम्यमिदमत्र ततो न कार्यः, प्रश्नो विकल्परसिकैर्विबुधैरसारः ।।२४।। नाऽत्र प्रभाकरमतेन समानताऽपि, शङ्या यतो हि गुरुणा व्यवसाय एव । प्राधान्यतो घट इति प्रतिपादितोऽत्र, जानाम्यहं घटमिति प्रविभाग एषः ।।२५।। एतेन चेत् स्वविषयत्वमिह प्रसिद्धं, स्यात् स्वप्रकाश उपदर्शितमानतस्ते । तस्य प्रथा यदि तदा विषयत्वसिद्धि - रित्थं निरस्त इतरेतरसंश्रयोऽपि ।।२६।। किञ्चाऽस्य बोधविषयत्वमपेक्ष्य बोधो, न स्वप्रकाश उदितोऽभिनवे तु तन्त्रे । सत्ता यथाऽपरत एव सती तथैव, वोधोऽवभासत इति प्रथितं तु तेन ।।२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org