________________
॥ श्रीन्यायसिन्धुः ॥ सद्रव्यं बद्धतीर्थं गुणमणिनिलयं प्राप्तपर्यायभावं,
सद्वृत्तं न्यायसिन्धुं गुरुचरणरतो नेमिसूरिस्तनोति ।।४।। ज्ञाननिरूपणम्
(मालिनीवृत्तम्) घटपटशकटाद्याः स्वस्वभावानुसारि, व्यवहृतिविषयत्वं यान्ति बुद्धिं विना नो । यत इह तत एव ज्ञानतत्त्वं पुरस्ताद्, भवति मननयोग्यं लक्षणान्मानतश्च ।।५।। व्यवहृतिरिह लोके त्रिप्रकारा यया सा, विबुधजनमता धीर्लक्षणं तत् तटस्थम् । जिनमतप्रथितैषा त्वात्मरूपा कथञ्चि - दिति भवति सदिष्टं लक्षणं तत्स्वरूपम् ।।६।। विसदृशमतिरिष्टा भिन्नतो लक्षणेन, यत इह तत एषा लक्षणादन्यतश्चेत् । भवति ननु विलम्बात् तेन ताटस्थ्यमस्य, स्वयमिह यदि सा स्यात् तत्स्वरूपं तदानीम् ।।७।। कथयति विबुधोऽन्यस्तत्स्वरूपाप्रविष्टं, यदिह तदितरस्माद् भेदकं तत् तटस्थम् । भवति पुनरथाऽन्यत् तत्स्वरूपप्रविष्टं, विसदृशमतिहेतुर्लक्षणं तत्स्वरूपम् ।।८।। विषयविमुखमेतन्न प्रवृत्त्यादिकार्ये, प्रभवति यत उक्तं तेन तस्य स्वरूपम् । विषयघटितमन्यैर्वाह्यवत् स्वस्वरूपं, विशदयति परं तन्नाऽन्यतोऽस्य प्रकाशः ।।९।।
(वसन्ततिलकावृत्तम्) सूर्यो यथाऽयमखिलार्थविभासकोऽपि, मेघावृतत्वविगमे स्वत एव भास्यः । कर्मावृतत्वविगमे च तथैव वोधो - ऽर्थग्राहकोऽपि भवति स्वत एव भास्यः ॥१०॥ यद्यन्यबोधत इह व्यवसायभानं, तस्याऽपि तर्हि परतस्तु भवेत् प्रकाशः । इत्थं व्यवस्थितिलयादनवस्थितिः स्याद्, दोषत्रयाकलितमूर्तिरियं न किं वः ।।११।। यद्यक्षजन्यमतिकारणमिष्टमत्र, बोधे तु मानसभवे प्रतिबन्धकं ते । किं गौरवान्न हि विभेषि विनाऽपि तेन, स्वस्मात् प्रकाश उपपद्यत एव यस्मात् ।।१२।। ग्राह्यो हि वोधजनको यदि सम्मतः स्या - न स्यात् तदा त्वजनकः स्वयमेव भास्यः । व्याप्तिः प्रमाणविषया न हि विद्यतेऽत्र, स्याच्चेत् तदेश्वरमतिः शशशृङ्गकल्पा ।।१३।। जन्यत्वतोऽप्यनुगता विशदावभासि - योगीश्वरप्रमितितो विमुखा न किं सा । किं शुक्लशङ्खगतपीतिमरूपवुद्धे - विनाऽपि जननं न मतं तवाऽस्ति ।।१४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org