________________
।। ओँ अहँ नमः ।। ॥ परमकारुणिकगीतार्थत्वादिगुणोपेतनिजचरणविद्याप्रतिभातिशयादिगुणसंस्मारितातीतयुगप्रधान
गुरुवर्यश्रीवृद्धिचन्द्रापरनामश्रीवृद्धिविजयसद्गुरुभ्यो नमः ॥ भव्यभव्यानुग्रहविहितानेकग्रन्थसन्दर्भसकलसूरिसार्वभौमशासनसम्राट्
तपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिसन्दृब्धः
॥ श्रीन्यायसिन्धुः ॥
मङ्गलाचरणम्
(मालिनीवृत्तम्) जयति ऋषभदेवो वुद्धतत्त्वप्रबन्धः, प्रथित इह जिनानामाद्यतीर्थप्रवक्ता ।। क्षपितनिखिलकर्मावाप्तशुद्धस्वरूपो, विभुरपि मितमाने सिद्धिदेशे य आस्ते ।।१।।
(स्रग्धरावृत्तम्) गर्वाकूपारवादिप्रथितनिजमताकूतविध्वंसलीलासधीचीनस्वपक्षप्रथनपरवचोविस्मिताखण्डलादिः । नेताऽस्मान् पातु वीरो मितनयनिलयो विश्वमाङ्गल्यकर्ता, जन्मिवाताभिपूज्यो जयति जिनवरो योऽन्तिमस्तीर्थकर्ता ।।२।।
(शार्दूलविक्रीडितम्) प्रोद्यत्तत्त्वविवोधबीजविदलन्मिथ्याधरोत्थाङ्कुरप्रोत्सर्पज्जिनभक्तिसन्ततिलता जातोपदेशाम्बुतः । यस्याऽशेषनयाम्वुधेर्मुनिवरस्योद्दामधामौकसः,
श्रीचन्द्रोत्तरवृद्धिनामविदितः स्यान्मङ्गलायाऽत्र सः ।।३।। ग्रन्थकभिधेयादिसूचनम्
(स्रग्धरावृत्तम्) सिद्धान्ताम्भोनिवासं प्रवलपरझषोद्वेगकारिप्रवाहं, मानात्यक्तप्रयोगं सुनयतरिमिलत्स्फीतभङ्गीविलासम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org