________________
२४
॥ श्रीन्यायसिन्धुः ॥
ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः कः किं घटादि नहि भासत एव बोधे । तद्भासमानमपि वा न विचारमार्गं, युक्त्या प्रयाति तत एव न चाऽभ्युपेयम् ।।२८५।। आद्यस्तवाऽपि नहि सम्मत इष्यते यत्, संवृत्तिसत्त्वमखिलेष्वपि लोकदृष्ट्या । एकान्तमेव न विचारविशुद्धरूप - मन्त्ये प्रसिद्ध्यतु कथं न जिनोक्तभावः ॥ २८६ ॥ | स्थूलो घटादिररूपतयाऽपि जैनै र्द्रव्यस्वरूपमवलम्ब्य निमित्तभेदात् । इष्टस्तथा स बहुशक्तिसमन्वयेना ऽनेकांशवृत्तिरपि तैश्च कथञ्चिदेकः ||२८७ ।। यत्कारणं भवति तद्विषयस्तदन्यद्, वेत्थं न चाऽत्र नियमो जिनसम्प्रदाये । यत्तत्तदावरणकर्मलयोपशान्त्या - देर्जायते नियतगोचर एव बोधः ||२८८।। यत्कारणं बहुविकल्प्य विचारमार्गाद् दूरीकृतं तदपि वाक्छलमेव सर्वम् । यस्माद् विकल्पनिकरो जनकापलापे, किं कारणं तव मतं किमु वा न चैव ।।२८९ ।। आद्ये विकल्पनिक स्वयमेव तत्राऽप्यालोच्य वाङ्नियमनं भवता विधेयम् । अन्त्ये कथं न जनकं स्थिरतामुपैतु, बाधां विकल्पनिकरान्न च प्रापयत् तत् ।।२९०।। मानं न मानमतिरिक्तमपेक्षते तन्नैवाऽनवस्थितिरपीह विचारतस्ते ।
किं वा विचार उपदर्शित एष तेऽपि, सिद्धिं प्रयातु कथमत्र तथैव बौद्ध ! ||२९१ || स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा - द्यालोचनादि च परस्परबाधितं च । ज्ञानं प्रबोधसमये तु विविक्तमस्मा - देवं स्थितौ हि न तयोर्व्यतिरिक्तता किम् ? ।।२९२ ।। यत्काकतालमिव सत्यमताविव स्यात्, स्वप्नेऽपि यद्यपि समानमतेर्विलासात् । संवादितादिघटनाऽन्धपरम्परेवं, किं स्यात् तथाऽपि नहि बाधितगोचरत्वम् ||२९३ ।। सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् स्वस्थप्रबोधमतितोऽर्थविनिर्णयेन । स्वप्नेऽप्यसत्प्रथनमिष्टमनल्पविज्ञे - जैनैर्न यद् भवतु तेन कथं न भावः ।।२९४।। नाऽसन्मतौ तव तु कारणमस्ति किञ्चिन्नो वासनाऽपि नियता तु विना पदार्थम् । किन्त्वन्यथा प्रथनमेव जिनागमज्ञेः, स्वप्ने निरूपितमतोऽन्यप्रथैव तस्मात् ।।२९५।। नैयायिकैरपि न तत्र मतं व्यलीक भानं न वा कपिलजैमिनितन्त्रविज्ञैः । किन्त्वन्यथाप्रथनमेभिरपि प्रशस्तं वेदे त्वनिर्वचनगोचरतैव तस्य ॥ २९६॥ ख्यातिः सतां भवति न त्वसतामभावात्, स्वाकारसंवरणतोऽन्यपरिग्रहाच्च । स्वप्ने प्रथाऽर्थनिकरस्य यथैव शुक्ते श्चाक्वक्यदोषवशतो रजतस्वभावात् ।। २९७।।
Jain Education International
-
-
For Private & Personal Use Only
www.jainelibrary.org