________________
॥ श्रीन्यायसिन्धुः ॥
प्राभाकरेण भयतस्तव वोधमात्रे, यथार्थ्यमेव प्रथितं भ्रमता विरोधि । भेदाग्रहस्त्वभिमतः स्मरणाक्षबुद्ध्यो - स्तत्ताप्रमोष उपपादित एतदर्थम् ।।२९८।। वन्ध्यासुताच्च खसुमं पृथगेव लोके - ऽसत्त्वाविशेषकलनेऽपि मतं भवेत् तत् । किञ्चाऽन्यथाप्रथन एव तथा विवक्षा - वैचित्र्यमप्यसति तन्न भवेत् कथञ्चित् ।।२९९।। प्रत्येकशब्दसमयाच्छशशृङ्गवाक्याद्, बोधोऽन्यथाप्रथन एव भवेद् गृहीतात् । सङ्केतहेतुघटनाऽपि न च व्यलीके, शाब्दप्रवृत्तिरपि नो नियता विना ताम् ।।३००।। पूर्वं मया रजतरूपतयैव दोषा - च्छुक्तिस्त्वियं विशदतोऽवगता पुरःस्था । । इत्यादिबुद्धिबलतो भ्रमताप्रसिद्धि - नॊ रोदनात् तव भवेदपहातुमर्हा ।।३०१।। प्राभाकरस्य मतमप्यनयैव युक्त्या, किं खण्डितं भवति नो यदि नो मतं सः । आश्रित्य तिष्ठतु तदा न भयस्य लेश - स्तत्तादिमोषमननश्रमतोऽपि मुक्तिः ॥३०२।। एतेन सिद्धमसदेव तवोक्तिजालं, यद् बाधितार्थविषयत्वनिराक्रियार्थम् । येन भ्रमत्वमननं सुदृढं भ्रमे स्यात्, तत्सर्वमेव ननु बाधकमिष्टमिष्टैः ।।३०३।। तद्ग्राहकोऽन्यविषयोऽथ च तुल्यकालः, किं वाऽन्यकाल इति नाऽत्र विशेष इष्ट: । स्याद्वादिना भ्रममतित्वविनिर्णयो यै - स्ते बाधका बुधविकल्पभरेण तेऽलम् ।।३०४।। अन्योन्यगोचरविरुद्धमतित्वसाम्ये - ऽप्येकं भ्रमत्वमपरत्र प्रकाशयेद् यत् । तद्बाधकं भवति तस्य प्रमास्वरूपं, पूर्वं भवेद् भवतु वोत्तरमन्यदेतत् ।।३०५।। शुक्तौ यथोत्तरमतेः प्रथमस्य बाधो, दृष्टस्तथा प्रथमतो न किमुत्तरस्य । किं वर्तमानमपि शौक्ल्यमतिर्न शङ्के, पीतत्वबोधमुपहन्ति जनस्य पूर्वा ||३०६।। द्वित्वं च चन्द्रमसि यद्यपि दोषसाम्यात्, पश्यन्ति येऽपि मिथ एव तमालपन्ति । तेषां तथाऽपि किमु नैक्यमतेः स्मृताया, भ्रान्तित्वनिर्णय उदेति तथाऽऽप्तवाक्यात् ।।३०७।। नैकान्ततो भवति च भ्रमतैव तस्य, चन्द्रे च सत्यमतिताऽपि मताऽऽर्हतानाम् । तस्मात् कथं कथय शून्यतयैव विश्वं, स्वीकार्यमन्धजनताप्रणिगद्यमानम् ।।३०८।। संवेदनात् स्वत उभे च दशे प्रबोध - स्वप्नात्मके प्रतिजनं पृथगेव भातः । प्रामाण्यतद्विरहरूपतया तथाऽत्र, स्वप्ने व्यलीकप्रथनं नहि सर्वथाऽस्ति ।।३०९।। अर्थक्रियावगतिरन्यप्रमां विनैव, मानं स्वतो भवति मानतया गृहीता । तस्यास्तु साधनमतेः प्रमितत्त्वबुद्धि - नैकान्ततः परत एव प्रमात्वबुद्धिः ।।३१०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org