________________
॥ श्रीन्यायसिन्धुः ॥ एतेन गौतममतं तव युक्तिजालान्, मीमांसकस्य च मतं निरुपद्रवं नो । एकान्ततः परत एव प्रमात्वसिद्धि - रेकान्ततोऽपरत एव मता हि ताभ्याम् ।।३११।। यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्ध्येत्, संवादका ननु भवन्ति त एव बोधाः । तुल्यावगाह्यसमगोचरतादि जैन - नैकान्ततो नियमतश्च मतं तथात्वे ।।३१२।। किञ्चित् करादिकविकल्पभरेण ते चेत्, संवादखण्डनमगर्यमविज्ञ ! तर्हि । सिद्धयेद् विकल्पनिकरोऽपि कथं स्वहेतो - स्तत्राऽप्यरण्यरुदितं निखिलं त्वदुक्तम् ।।३१३।। संवादखण्डनमनेन यदि व्यलीकं, संवादसिद्धिरिह तर्हि भवेदवाध्या । सत्यं मतं यदि तदा नहि सर्वमेव, शून्यं तवोपगमतोऽपि प्रसिद्धिमेतु ।।३१४।। ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात्, किं ग्राहकोऽपि तत एव भवेन्न वोधः । वह्निर्यथा दहति काष्ठमसौ तथा किं, नाऽग्नि स्वभावबलमेव भवेदिहाऽपि ।।३१५।। शून्यत्वसिद्धिरिह ते ननु यैर्विचारैः, सत्यत्वसिद्धिरपि तैर्न कथं जगत्सु । इत्यत्र किं बुध ! तवाऽपि तमन्तराऽस्ति, वादे विपक्षदलने हि गतिर्द्वितीया ।।३१६।। ग्राह्योऽपि बोध इह संविदितो निजेन, नो नो विरोधघटना प्रमिते स्वभावे । स्वेष्टप्रसाधकतया तव सम्मतः किं, नाऽन्येष्टबाधकतयाऽभिमतो विचारः ।।३१७।। ग्राह्यस्वभावपरिणामतया तु बाह्यो, ज्ञानेन बोध इह वोधकतास्वभावः । अर्थेन किं नहि कथञ्चिदनन्तधर्मा, सञ्जायते भवतु येन विकल्पदुष्टः ।।३१८।। एकान्तवादमवलम्ब्य प्रदर्शितो न, दोषोऽत्र जैनसरणौ लभते प्रतिष्ठाम् । आपादनं भवति सर्वमनिष्टरूपं, स्याद्वादवादिनि न तस्य यतोऽवकाशः ॥३१९।। अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना, प्रामाण्यबुद्धिरपि तत्र च पूर्वनीत्या । अन्योन्यसंश्रयघटा नहि विद्यतेऽत्र, भ्रान्तित्वसिद्धिरपि तद्वदिह प्रसिद्धा ||३२०।। अर्थाननर्थजनकाननुचिन्त्य बौद्ध!, नैरात्म्यदर्शनमतं प्रकटीकरोषि । तत्राऽपि तेऽस्ति नहि वासनया विनैव, लोकव्यवस्थितिरतस्तु महाननर्थः ।।३२१।। मा वासनाजलभृतान्धुपरम्परायां, लोकाः पतन्त्विति पदार्थततौ विचिन्त्य ।
लोकोपकाररसिकोऽपि किमर्थमज्ञ !, स्याद्वादतन्त्रममलं न करोषि चित्ते ? ।।३२२।। नैयायिकमतेनेन्द्रियस्वरूपनिरूपणम् -
नैयायिकोपगतमिन्द्रियमप्रमाणं, साक्षात्प्रमाजनकताविरहात् तथा चेत् । अन्नादि तर्हि न परम्परयाऽपि किं तै - मनिं मतं जनकताघटनाच्च तद्वत् ।।३२३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org