________________
॥ श्रीन्यायसिन्धुः ॥
जैनैर्द्विधेन्द्रियनिरूपणमुक्तमत्र, द्रव्येन्द्रियं प्रथमतो द्विविधं च तत्र । शक्तिर्मतोपकरणेन्द्रियमिन्द्रियाणां, निर्वृत्तिरूपमपरं खलु गोलकादि ।।३२४।। भावेन्द्रियं तदिव लब्ध्युपयोगभेदा - दन्त्यं द्विधा प्रथममावरणक्षयादि ।
ज्ञानं द्वितीयमुपयोगतया प्रसिद्धं, साक्षात् तदेव जनकं प्रमितेर्हि मानम् ।।३२५।। तत्खण्डनम् -
किञ्चेन्द्रियं भवति नाऽर्थमतौ समर्थं, कुम्भादिवज्जडतयाऽस्वप्रकाशकत्वात् । तद्रौतिकं तव मतं च सुषुप्तिकाले, किं तूलिकादिषु मतिर्न करोति सत्त्वात् ।।३२६।। नो मानसं भवति चाऽणु यतस्तदाऽस्य, वाह्येन्द्रियेण घटनाविलयान बोधः । स्यादिन्द्रियत्वत इदं च महत्त्वयोगि, नेत्रादिवत् तव मतेन कथं न विद्वन् ! ।।३२७।। लब्धीन्द्रियक्रमविशेषवशात् क्रमोऽपि, नेत्रादिजन्यमतिषूपगतोऽत्र जैनैः । नाऽस्मिन्मते मनस इन्द्रियताऽप्यभीष्टा, प्रोक्तं ह्यनिन्द्रियमिदं जिनतन्त्रविज्ञैः ।।३२८।। स्वांशे प्रमा निखिल एव मतोऽत्र बोधो - ऽर्थे त्वप्रमाऽपि विपरीतप्रकाशकत्वात् ।
याथार्थ्यगोचरमतित्वमिह प्रमात्वं, स्यादप्रमात्वमितरत् तत आर्हतानाम् ।।३२९।। प्रामाण्यस्य स्वतस्त्वपरतस्त्वविचारः -
एतद् द्वयं स्वजनने परतः स्वतो न, ज्ञप्तौ स्वतश्च परतश्च मतं जिनानाम् । उत्पत्तिबोधनफलत्रितये प्रमात्वं, मीमांसकस्य कपिलस्य मतं स्वतस्तु ।।३३०।। वेदान्तिनोऽपरत एव प्रमात्वमिष्ट - मान्वीक्षिकीमतविदः परतो द्वयं तु । बौद्धैस्तथैव परतः कथितं द्वयं तत्, त्वर्थांशमात्रमवलम्ब्य न च स्वरूपम् ।।३३१।। एकान्तवादमवलम्ब्य प्रवृत्तिभाज, एते न युक्तिपदवीं जिनदेवतानाम् । आश्रित्य याति किमु सिद्धिपदं विदोषा, एकान्ततैव परमेष्वपि युक्तिवाध्या ।।३३२।। सामान्यबोधजनकव्यतिरिक्तहेतु - जन्या प्रमा भवति बोधविशेषतातः । भ्रान्तिर्यथा तव मता व्यतिरिक्तदोष - जन्या तथा गुणभवा प्रमितिर्न किं नः ।।३३३।। प्रत्यक्षतो यदि गुणो नयनादिगोऽत्र, बाध्यस्ततोऽनुमितितोऽपि न चाऽस्य सिद्धिः । दोषोऽपि तर्हि तत एव न च प्रसिद्ध्येद्, भ्रान्तिः प्रमेव जनने स्वत एव किं नो ।।३३४।। ज्ञाने प्रमात्वमथ शक्तिरदृष्टवस्तु - प्रोद्वोधिका भवति सा स्वत एव बोधे । ज्ञानेऽप्रमात्वमपि शक्तिरसत्प्रथाऽर्था, किं न स्वतस्तव तथैव मताऽत्र विद्वन् ! ।।३३५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org