________________
॥ श्रीन्यायसिन्धुः ॥ हेतौ प्रमात्वमथ नाऽस्ति यतो न तस्मा - द्धेतोः प्रमात्वभवनं च मतौ मतं ते । ज्ञानत्वमप्यनुमतं न च तर्हि ते स्यात्, किं वा भ्रमत्वमपि ते स्वत एव तद्वत् ।।३३६।। यत्कारणाद् घटपटादिपदार्थजन्म, शक्तिश्च तेषु तत एव न जायते किम् । नैर्मल्यतो नयनगात् प्रमितिः प्रतीता, प्रामाण्यशक्तिरपि तस्य गुणात् ततोऽस्तु ।।३३७।। मीमांसकैर्न पृथगेव मतोऽप्यभावो, भावाच्च दोषविरहोऽत्र गुणः प्रमायाम् । येनाऽस्तु हेतुरपि न व्यतिरिक्तभाव - जन्यत्वमस्य तत एव भवेत् स्वतस्त्वम् ।।३३८।। दोषोऽथवा भवतु किं न गुणस्वभावा - भावोऽप्रमाजनक इत्यपि भावयाऽन्तः । प्रामाण्यमेव परतोऽस्तु गुणस्वभावात्, स्याद् भ्रान्तिताऽपरत एव विपर्ययेण ।।३३९।। पित्तादिको नयनगोऽथ यथैव दोषो, लोकप्रसिद्धपदवीमवगाहते ते । किं नो तथैव जनताप्रमितो गुणो नः, सिद्धिं प्रयातु न विशेष इहाऽस्ति कश्चित् ।।३४०।।
औत्सर्गिकं भवति बोधगतं प्रमात्वं, तस्मात् स्वतो यदि मतं न च तच्च युक्तम् । हेतुं विना न नियमोऽस्य भवेत् तथा च, किं भ्रान्तिवृत्तिरपि नाऽनियतस्य वाऽस्य ।।३४१।। ज्ञानत्ववनिखिलवोधगतं प्रमात्वं, स्वाभाविकं भवितुमर्हति न क्वचित् तु । दोषान्न तस्य यदि जन्म तदा कथं न, पूर्वोक्तनीतिबलतः परतोऽस्य जन्म ।।३४२।। किं वाऽप्रमात्वमपि तत्समकक्षमेव, स्वाभाविकं न तव सम्मतमत्र विद्वन् ! । किं प्रक्रिया भवतु युक्तिमृते त्वदुक्ता, हास्यास्पदं न शतधाऽपि प्रलप्यमाना ? ।।३४३।। संवादितादिपरहेतुत एव तस्य, ज्ञप्तिस्तथा जनकवोधगतस्य युक्ता । भ्रान्तित्वबुद्धिरिव नाऽत्र विशेषलेशो, लोकानुसारिसरणावुपलक्ष्यते यत् ।।३४४।। अर्थक्रियामतिगतं प्रमितित्वमिष्टं, ज्ञप्तौ स्वतो जिनमतानुगतैस्ततो नो । मानानवस्थितिरपीह भवेच्च येन, प्रामाण्यबुद्धिरखिलेषु परानपेक्षा ।।३४५।। प्रामाण्यसंशयमतिर्न भवेत् स्वतस्त्वे, ज्ञानग्रहे तदपि निश्चितमेव यस्मात् । ज्ञानाग्रहे तु न भवेत् सुतरां यतोऽस्यां, धर्मिग्रहो बुधमतो जनको बुधाग्य ! ।।३४६।। प्रामाण्यमंशमिह बोधगतं विशेष - कर्मक्षयोपशमतो जिनसम्प्रदाये । बोधोऽवगाहत इतीष्यत एवमेव, ज्ञानस्वरूपमपि तत् प्रथते न पूर्वम् ।।३४७।। एतेन केवलमतौ प्रमितित्वबुद्धिः, स्वस्माद् भवेन्निखिलकर्मलयान्न भिन्नात् । इत्युक्तमेव तत एव तदुत्थबोधे, प्रामाण्यसंशयकथाऽपि न सावकाशा ।।३४८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org