Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 51
________________ २४ ॥ श्रीन्यायसिन्धुः ॥ ग्राह्यं विकल्प्य तव खण्डयतोऽत्र भावः कः किं घटादि नहि भासत एव बोधे । तद्भासमानमपि वा न विचारमार्गं, युक्त्या प्रयाति तत एव न चाऽभ्युपेयम् ।।२८५।। आद्यस्तवाऽपि नहि सम्मत इष्यते यत्, संवृत्तिसत्त्वमखिलेष्वपि लोकदृष्ट्या । एकान्तमेव न विचारविशुद्धरूप - मन्त्ये प्रसिद्ध्यतु कथं न जिनोक्तभावः ॥ २८६ ॥ | स्थूलो घटादिररूपतयाऽपि जैनै र्द्रव्यस्वरूपमवलम्ब्य निमित्तभेदात् । इष्टस्तथा स बहुशक्तिसमन्वयेना ऽनेकांशवृत्तिरपि तैश्च कथञ्चिदेकः ||२८७ ।। यत्कारणं भवति तद्विषयस्तदन्यद्, वेत्थं न चाऽत्र नियमो जिनसम्प्रदाये । यत्तत्तदावरणकर्मलयोपशान्त्या - देर्जायते नियतगोचर एव बोधः ||२८८।। यत्कारणं बहुविकल्प्य विचारमार्गाद् दूरीकृतं तदपि वाक्छलमेव सर्वम् । यस्माद् विकल्पनिकरो जनकापलापे, किं कारणं तव मतं किमु वा न चैव ।।२८९ ।। आद्ये विकल्पनिक स्वयमेव तत्राऽप्यालोच्य वाङ्नियमनं भवता विधेयम् । अन्त्ये कथं न जनकं स्थिरतामुपैतु, बाधां विकल्पनिकरान्न च प्रापयत् तत् ।।२९०।। मानं न मानमतिरिक्तमपेक्षते तन्नैवाऽनवस्थितिरपीह विचारतस्ते । किं वा विचार उपदर्शित एष तेऽपि, सिद्धिं प्रयातु कथमत्र तथैव बौद्ध ! ||२९१ || स्वप्नेऽस्थिरं चलमसम्भवितात्मजन्मा - द्यालोचनादि च परस्परबाधितं च । ज्ञानं प्रबोधसमये तु विविक्तमस्मा - देवं स्थितौ हि न तयोर्व्यतिरिक्तता किम् ? ।।२९२ ।। यत्काकतालमिव सत्यमताविव स्यात्, स्वप्नेऽपि यद्यपि समानमतेर्विलासात् । संवादितादिघटनाऽन्धपरम्परेवं, किं स्यात् तथाऽपि नहि बाधितगोचरत्वम् ||२९३ ।। सत्यत्वनिर्णयमतिस्तु भवेच्च जाग्रत् स्वस्थप्रबोधमतितोऽर्थविनिर्णयेन । स्वप्नेऽप्यसत्प्रथनमिष्टमनल्पविज्ञे - जैनैर्न यद् भवतु तेन कथं न भावः ।।२९४।। नाऽसन्मतौ तव तु कारणमस्ति किञ्चिन्नो वासनाऽपि नियता तु विना पदार्थम् । किन्त्वन्यथा प्रथनमेव जिनागमज्ञेः, स्वप्ने निरूपितमतोऽन्यप्रथैव तस्मात् ।।२९५।। नैयायिकैरपि न तत्र मतं व्यलीक भानं न वा कपिलजैमिनितन्त्रविज्ञैः । किन्त्वन्यथाप्रथनमेभिरपि प्रशस्तं वेदे त्वनिर्वचनगोचरतैव तस्य ॥ २९६॥ ख्यातिः सतां भवति न त्वसतामभावात्, स्वाकारसंवरणतोऽन्यपरिग्रहाच्च । स्वप्ने प्रथाऽर्थनिकरस्य यथैव शुक्ते श्चाक्वक्यदोषवशतो रजतस्वभावात् ।। २९७।। Jain Education International - - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158