Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 49
________________ २२ ॥ श्रीन्यायसिन्धुः ॥ भ्रान्तिः प्रमेति नहि बोधगतो विशेषः, स्वप्ने प्रवोधसमये च यतो विशेषः ।। संवादितादिघटनाऽप्युभयोः समाना, नाऽऽपातमात्रमधुरा ह्यविवेकिनां किम् ? ॥२५९।। बोधो भ्रमो भवति बाधितगोचरत्वा - ज्ज्ञानान्तराद् बहुविधोऽत्र विकल्पजालः । ज्ञानान्तरेण किमु तस्य निजस्वरूप - हानिर्भवेत् किमुत तद्विषयस्य लोपः ।।२६०।। आद्ये विनाशजनकात् प्रमितेर्विनाशो, यद्वत् तथा भ्रममतेः स न बोधतोऽस्मात् । किं बाधिता पटमतिर्घटबुद्धितो नो, पूर्वा तथोत्तरजनेरित एव हेतोः ।।२६१।। लोपः सतोऽथ विषयस्य न शक्यतेऽन्त्ये, कर्तुं न कैश्चिदसतोऽपि न युज्यते सः । मिथ्यात्वमस्य स हि बोधयतीति चेत् स, तद्ग्राहकः किमु मतः किमु वाऽन्य एव ।।२६२ ।। चेद् ग्राहकः स्वविषयं स हि बाधतां नो, तत्त्वे भ्रमत्वमपि तस्य भवेत् कथं न ? । अग्राहको यदि तदाऽग्रहणान्न बाधा, स्याद् वा कथं निखिलमेव ततो न बाध्यम् ।।२६३।। मिथ्यात्वबोधनमपीष्टमभिन्नकाले, भिन्नक्षणेऽथ प्रथमो यदि सम्मतस्ते । नो तर्हि पूर्वमतिगोचरबाधनं स्या - दन्त्ये विभिन्नसमयाग्रहणान्न बाधा ।।२६४।। किं वा यथोत्तरमतेः प्रथमा मतिः स्याद्, वाध्या तथैव किमु नोत्तरधीश्च तस्याः । अन्योन्यगोचरविरुद्धमतित्वमाभ्यां, व्यावर्तते न हि यतः प्रथमस्य बाधः ।।२६५।। संवादनं भवति सत्यमतौ यथा ते, ज्ञानान्तराद् भवति तद्वदिहाऽपि किं नो । द्वित्वं न चन्द्रमसि तैमिरिका अनेके, पश्यन्ति किं ह्यभिलपन्ति न किं मिथस्ते ।।२६६।। जाग्रद्दशोत्थमतितो ननु यद्वदेव, स्वप्नोत्थधीविषयबाधनमस्ति तद्वत् । स्वप्नात् प्रबोधविषयस्य न बाधनं किं, नेते दशे अपि मिथो भवतो विभिन्ने ? ॥२६७।। यद्बाधकं तदपि वाध्यमबाधकं स्या - न्मानान्तराच्च तदबाध्यतया मतं चेत् । मानान्तरं तदपि वाध्यतया प्रतीतं, तत्साधकं भवति नेति दृढाऽनवस्था ।।२६८।। संवादकं दपि तत्र मतं भवेत् तत्, किञ्चित्करं किमुत वा न करोति किञ्चित् । आद्ये त्वभिन्नमुत वा व्यतिरिक्तमेव, संवाद्यबुद्धित इदं प्रकरोति तच्च ।।२६९।। संवाद्यबुद्धिजननं प्रथमे न युक्तं, संवादकात् क्वचिदसौ न च दृष्टपूर्वम् । अन्त्येऽतिरिक्तजननेऽपि न पूर्वबुद्धौ, व्यावर्तकं भ्रममतेरभवच्च किञ्चित् ॥२७०।। यश्चोपकार उपदर्शितबुद्धितोऽभूत्, संवाद्यबुद्ध्यसमकालतयैव नाऽस्याः । भिन्नः स वा किमपि तत्र करोति नो वा, तत्राऽनवस्थितिघटा प्रथमेऽनिवार्या ॥२७१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158