Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 53
________________ ॥ श्रीन्यायसिन्धुः ॥ एतेन गौतममतं तव युक्तिजालान्, मीमांसकस्य च मतं निरुपद्रवं नो । एकान्ततः परत एव प्रमात्वसिद्धि - रेकान्ततोऽपरत एव मता हि ताभ्याम् ।।३११।। यैस्तु प्रमात्वमतिरन्यमतौ प्रसिद्ध्येत्, संवादका ननु भवन्ति त एव बोधाः । तुल्यावगाह्यसमगोचरतादि जैन - नैकान्ततो नियमतश्च मतं तथात्वे ।।३१२।। किञ्चित् करादिकविकल्पभरेण ते चेत्, संवादखण्डनमगर्यमविज्ञ ! तर्हि । सिद्धयेद् विकल्पनिकरोऽपि कथं स्वहेतो - स्तत्राऽप्यरण्यरुदितं निखिलं त्वदुक्तम् ।।३१३।। संवादखण्डनमनेन यदि व्यलीकं, संवादसिद्धिरिह तर्हि भवेदवाध्या । सत्यं मतं यदि तदा नहि सर्वमेव, शून्यं तवोपगमतोऽपि प्रसिद्धिमेतु ।।३१४।। ग्राह्यो जडोऽत्र किमु नो न तथास्वभावात्, किं ग्राहकोऽपि तत एव भवेन्न वोधः । वह्निर्यथा दहति काष्ठमसौ तथा किं, नाऽग्नि स्वभावबलमेव भवेदिहाऽपि ।।३१५।। शून्यत्वसिद्धिरिह ते ननु यैर्विचारैः, सत्यत्वसिद्धिरपि तैर्न कथं जगत्सु । इत्यत्र किं बुध ! तवाऽपि तमन्तराऽस्ति, वादे विपक्षदलने हि गतिर्द्वितीया ।।३१६।। ग्राह्योऽपि बोध इह संविदितो निजेन, नो नो विरोधघटना प्रमिते स्वभावे । स्वेष्टप्रसाधकतया तव सम्मतः किं, नाऽन्येष्टबाधकतयाऽभिमतो विचारः ।।३१७।। ग्राह्यस्वभावपरिणामतया तु बाह्यो, ज्ञानेन बोध इह वोधकतास्वभावः । अर्थेन किं नहि कथञ्चिदनन्तधर्मा, सञ्जायते भवतु येन विकल्पदुष्टः ।।३१८।। एकान्तवादमवलम्ब्य प्रदर्शितो न, दोषोऽत्र जैनसरणौ लभते प्रतिष्ठाम् । आपादनं भवति सर्वमनिष्टरूपं, स्याद्वादवादिनि न तस्य यतोऽवकाशः ॥३१९।। अर्थप्रसिद्धिरपि न प्रमितेविभिन्ना, प्रामाण्यबुद्धिरपि तत्र च पूर्वनीत्या । अन्योन्यसंश्रयघटा नहि विद्यतेऽत्र, भ्रान्तित्वसिद्धिरपि तद्वदिह प्रसिद्धा ||३२०।। अर्थाननर्थजनकाननुचिन्त्य बौद्ध!, नैरात्म्यदर्शनमतं प्रकटीकरोषि । तत्राऽपि तेऽस्ति नहि वासनया विनैव, लोकव्यवस्थितिरतस्तु महाननर्थः ।।३२१।। मा वासनाजलभृतान्धुपरम्परायां, लोकाः पतन्त्विति पदार्थततौ विचिन्त्य । लोकोपकाररसिकोऽपि किमर्थमज्ञ !, स्याद्वादतन्त्रममलं न करोषि चित्ते ? ।।३२२।। नैयायिकमतेनेन्द्रियस्वरूपनिरूपणम् - नैयायिकोपगतमिन्द्रियमप्रमाणं, साक्षात्प्रमाजनकताविरहात् तथा चेत् । अन्नादि तर्हि न परम्परयाऽपि किं तै - मनिं मतं जनकताघटनाच्च तद्वत् ।।३२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158