Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 45
________________ १८ ॥ श्रीन्यायसिन्धुः ॥ नीलादिता भवतु तेऽत्र कुतः प्रमाणाद्, ग्राह्ये न किन्तु मतिमात्रगतैव बौद्ध ! । साकारतादिघटनानियता न बाह्य - मर्थं विना नियतमज्ञ ! तवाऽपि बोधे ।।२०९।। यस्मात् पृथग् भवति यो नियमेन तस्माद्, भिन्नोपलम्भविषयः स निरीक्ष्यतेऽत्र । नीलादिकस्तु मतितो न कदाचिदेव, भिन्नोपलम्भविषयः स कथं तदन्यः ।।२१०।। इत्थं न चाऽनुमितिरत्र तव प्रमाणं, सुस्पष्टदृष्ट इह हि व्यभिचारदोषः ।। भिन्ना प्रभाऽपि नियमेन घटादिना यत्, सार्द्ध प्रकाशविषयो न पृथक्त्वतस्तु ।।२११।। किं वा न चित्रमतिरत्र पृथक् पदार्थात्, संवेद्यते भवतु येन न हेत्वसिद्धिः । नीलाद् विभिन्नतनुरेव यतस्तु पीता - कारो मतो स्फुटवपुः प्रथते न चैक्यात् ।।२१२॥ ज्ञानादभिन्नतनुता यदि चेत् तवाऽर्थे, पीतान्न नीलमपि भिन्नमभेदतः स्यात् । ज्ञानं यदेकमुभयादपृथक्स्वरूपं, चित्रं त्वयैव विनिभालितमत्र चित्रम् ।।२१३।। नो नीलपीतरचितव्यतिरिक्तचित्रा - कारोऽपि चित्रमतिगोऽत्र निरीक्ष्यते जैः । नीलादिभिन्नतनुतैव भवेच्च येन, ते चित्रबुद्धिनियता खलु चित्रताख्या ।।२१४।। अर्थक्रिया घटपटादिपृथक्स्वभावा - नैका विरुद्धघटनात् तत एव बाह्ये । भेदो यथा ननु तथा प्रतिभाससाङ्क - र्यापत्तितो न च कथं मतिगोऽपि भेद: ।।२१५।। किं नो घटोऽयमितिवत् तव सम्प्रदाये, ज्ञानं घटः पटमठविति वाग्विलासः । पूर्वः परोऽथ नियमो न च दृश्यते यो - ऽभिन्नो हि येन प्रथितश्च तयोः प्रयोगे ।।२१६।। तादात्म्यतो विषयता नियता मतेर्हि, ग्राह्यं घटादि यदि तेन मतेरभिन्नम् । सर्वज्ञता सुगततोऽपगता तदा ते, सर्वस्य चैक्यमुत वा तदभिन्नतातः ।।२१७।। नो लाघवाद् भवति मानबहिष्कृताद् वा, वस्त्वैक्यसिद्धिरिह येन तव व्यवस्था । तत्त्वे कथं घटपटादिपदार्थजातो, नैकस्वरूप इति किं न भवेत् प्रसङ्गः ? ।।२१८।। पूर्वं य एव भवता विनिभालितोऽश्वो, दृष्टोऽद्य सैव तु मयेति बहिष्पदार्थे । सञ्जायते मतिरसौ सदृशत्वतस्ते, सादृश्यमत्र मतितो न कथं विभिन्नम् ।।२१९।। नीलस्य बोधत इयं पृथगेव बुद्धिः, पीतत्वगोचरतयेति मतिस्तथा नो । विज्ञानतैव यदि सर्वपदार्थगा स्याद्, वाह्यक्षयाद् भवितुमर्हति तर्हि विद्वन् ! ।।२२०।। बुद्धोऽस्म्यहं परिजना मम सर्वबौद्धा, इत्यादिबुद्धिरिह चेद् यदि चाऽन्त्यजानाम् । किं तर्हि ते न गुरवो भवतां भवेयु - र्लब्धो महानिह गुणः सुगतेन शिष्यात् ।।२२१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158