Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 39
________________ ॥ श्रीन्यायसिन्धुः ॥ यच्चैकदेश इह कार्यजनौ समर्थं, तत् सर्वदेश इत एव करोतु कार्यम् । नो चेद् विरुद्धघटनादिह चाऽपि भेद, एवं तवोपरि कथं न पतेत् प्रसङ्गः ।।१३२।। योऽयं क्षणः प्रकृतकालगतं पदार्थं, कर्तुं समर्थ इह सोऽन्यगतं तथा चेत् । कार्यं त्रिकालगमसौ जनयेत् तथा च, साधु क्षणक्षयमतं भवता न्यगादि ।।१३३।। यो वै क्षणः प्रकृतकालगदेशवृत्ति - कार्योदवे प्रभुरसौ यदि ते समर्थः । कार्यं त्रिकालगतदेशगतं विधातुं, नित्यं विभु प्रथितमेव तदा त्वयाऽपि ।।१३४।। पूर्वप्रसञ्जनभयाद् यदि तद्विरुद्ध - मिष्टं तदा क्षणगतेऽपि भवेच्च भेदः । तत्त्वेऽनवस्थितिघटा तव शून्यता वा, पक्षे क्षणक्षयकथा न तु सावकाशा ।।१३५।। इत्थं स्वबुद्धिविभवो ननु तार्किकेण, व्यक्तीकृतस्तु प्रतिवन्दिबलान्न तत्त्वात् । एकक्षणेऽपि बहुधर्मयुतं पदार्थं, यस्माद् विवेद न च सोऽपि कुतर्कमोहात् ।।१३६।। शक्तिः स्वरूपसहकारिविभेदतोऽत्र, द्वेधा मता घटपटादिपदार्थनिष्ठा । बौद्धोक्तदोषनिवहस्य कुतोऽवकाशः, स्याद्वादवादिनि वृथा प्रतिबन्दिचर्चा ।।१३७।। स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः, किं नोद्भवो न च विशिष्टमतिस्ततः किम् । संयोगतो विभजनाच्च तदुद्भवाद् वा, किं नाऽक्षजा भवतु धीर्विशदावभासा ।।१३८।। यद् वर्तमानमिह केवलमक्षबोधे, वस्तु प्रकाशत इति प्रतिपादितं तत् । ध्यान्ध्यं यतो नहि भवेत् तव केवलस्य, पूर्वापराद्यविषयीकरणेऽवभासः ।।१३९।। ऐक्यं यथाऽत्र प्रतियोग्यनुयोग्यपेक्षं, नो भासते तदुभयं विरहय्य बुद्धौ । भेदस्तथैव प्रतियोग्यनुयोग्यपेक्षः, किं भासतां तदिव केवलशब्दवाच्यः ।।१४०।। भेदः स्वलक्षणतयैव मतो हि तेन, तबुद्धितो यदि भवेत् स गृहीत एव । ऐक्यं स्वलक्षणतयैव मतं कथं न, तच्चाऽपि तर्हि तत एव गृहीतरूपम् ।।१४१।। सान्निध्यतो भवति चाऽक्षमतेविलासः, पूर्वापरौ न विषयीकुरुते ततः सा । इत्यादिकं तव मते न हि युज्यते यत्, सान्निध्यमेव तु न चाऽस्ति पृथक् पदार्थात् ।।१४२।। नैक्यत्वतो ग्रहणमत्र भवेत् तथात्वे, भेदत्वतो ग्रहणमप्यनुमोदितं किम् । धर्मिस्वरूपमुभयत्र समानमेव, तस्मात् कथं न सविकल्पकबुद्धिरक्ष्णः ।।१४३।। रूपे यथैव नयनस्य तथैव गन्धे, सान्निध्यमस्ति नयनान तु गन्धबुद्धिः । योग्यत्वमेव नियतं तत आर्हतानां, ग्राह्यस्वभावगमकं मतमिन्द्रियाणाम् ।।१४४।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158