Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 38
________________ ॥ श्रीन्यायसिन्धुः ॥ संयोगखण्डनमपि प्रथितं त्वया यत्, तत् तार्किकस्य मतमेव निराकरोतु । पर्यायताऽस्य कथिता ननु येन तस्मिन्, स्याद्वादवादिनि कथं तव दोषपोषः ।।११९।। संयोगिनोऽत्र परमाणव एव किं स्युः, संयोगहेतव उतेतरथाऽऽद्यपक्षे । संयोगकल्पनमनर्थकमेव तेषां, संयोगिता प्रथमतो ननु यत् प्रसिद्धा ।।१२०।। द्वैतीयके तु किमु सातिशयास्तथा स्युः, किं वा न तेऽतिशयतश्च विशिष्टरूपाः । आद्येऽन्यतो यदि तु सातिशयत्वमेषां, किं नाऽनवस्थितिलतापरिवेष्टनं स्यात् ।।१२१ ।। स्वस्माद्धि चेद् यदि तदा त्वविशेषतः किं, देशान्तरस्थितिमतामपि तद्भवेन्नो । दोषादतोऽतिशयशून्यतयाऽपि नैषां, स्वीकारपक्ष उपपद्यत एव युक्त्या ।।१२२।। अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं, तद्वत्त्वतोऽणुषु कथं नहि सांशता स्यात् । इत्यादिदोषघटना जिनसम्प्रदाये, स्याद्वादलाञ्छिततनौ न भवेच्च तस्मिन् ।।१२३।। संयोगवद् विभजनं च तथैव सिद्धं, नो द्रव्यतस्तदुभयं व्यतिरिक्तमेव । तत्कारणं भवति कर्म तथैव तस्मात्, किं नो विशिष्टमतिरक्षभवा ततो नः ।।१२४।। कर्मोद्भवो भवति नो क्षणिकत्वपक्षे, स्थैर्य भवेदपि न स प्रमितस्तु पक्षः । इत्यादि यत्पुनरिहाऽभिहितं त्वया तत्, स्यादेव तार्किकभयस्य निदानभूतम् ।।१२५।। नो नः क्षणक्षयतयाऽभिमताः पदार्था, एकान्ततो न च तथा स्थिरतालयाश्च । स्याद्वाद एव ननु तत्र निरस्तदोषः, कर्मादिभूतिफलकोऽभ्युपगन्तुमर्हः ॥१२६।। यस्माद् भवेन्न च निरन्वयमेव जन्म, तस्मात् कथं क्षणिकपक्षकृतादरस्त्वम् । पूर्वापरक्षणगताश्च विभिन्नधर्मा - ध्यासात् कथं स्थिरतयैव तथोपगम्याः ।।१२७।। यच्चैकदा भवति यज्जनने समर्थं, तत् सर्वदेति नियमेन प्रसङ्गतो यत् । सामर्थ्यतद्विरहरूपविरुद्धधर्मा - ध्यासान्मतं क्षणिकतानियतं च सत्त्वम् ।।१२८।। अर्थक्रियाजनकतैव मताऽत्र सत्ता, तस्या बलात् क्षणिकता तव सर्वभावे । एतद् द्वयं ननु विचारसहं न यस्मा - नैयायिकैरपि कृता स्थिरताव्यवस्था ।।१२९।। एकं न किञ्चिदपि कारणमर्थकारि, सामग्र्यमेव जनकं तत एव कार्यम् । यस्मात् ततस्तु सहकारिसहायतोऽर्थं, कुर्युर्न कुर्युरपि तद्विरहात् पदार्थाः ।।१३०।। किं वा यथाऽत्र करणाकरणे न काल - भेदे स्थिरे भवत एक पदार्थनिष्ठे । एते तथैव भवतो ननु देशभेदे - ऽप्येकत्र धर्मिणि कथं क्षणिकेऽपि बौद्ध! ।।१३१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158