Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

Previous | Next

Page 37
________________ ॥ श्रीन्यायसिन्धुः ॥ द्वैतीयके न नियमोऽविनिगम्यभावात्, सर्वस्य किं सकल एव ततो न वृत्तिः । युक्तिः समैव समवायनिराक्रियाया - मेषा विशुद्धमतिभिः स्वयमेव चिन्त्या ।।१०६।। वायौ न किं भवति रूपविशिष्टबुद्धि - रेको विभुश्च समवाय इहेष्यते यत् । सम्बन्धसत्त्वनियतैव मतार्थसत्ता, नो चेत् तदा भवतु तस्य प्रयोजनं किम् ।।१०७।। स्याच्चेन्न रूपप्रतियोगिक एष वायौ, वाच्यस्तदा विनिगमो ननु कोऽपि येन | भूम्यादिकेऽस्ति स तु नो पवनादिभावे, ज्ञानाद् व्यवस्थितिरियं च न युज्यते ते ।।१०८।। वायौ हि रूपविरहस्य मतिस्तवेष्टा, सा रूपबुद्धिजनितैव न रूपबुद्धेः । आरोपतावगतिरस्ति विनैव रूपा - भावप्रमाप्रमितिमित्यवधारणीयम् ।।१०९।। चेल्लाघवात् तव प्रथा यदि तस्य तर्हि, नाऽस्त्येव तच्च बुध ! तद्व्यतिरिक्ततायाम् । द्रव्यादिभेदघटनादिप्रकल्पनेन, यद्गौरवं भवति तत्र तदात्मतातः ।।११०।। तादात्म्यतो भवति जातिविशिष्टबुद्धि - स्तादात्म्यमत्र तु कथञ्चिदनन्यतैव । तस्मात् कथं कथय बौद्ध ! विकल्पबुद्धि - रक्षोद्भवाऽपि किमु नैव प्रयाति सिद्धिम् ।।१११।। नो सर्वथाऽवयवतो व्यतिरिक्त एव, स्थूलो घटाद्यवयवी जिनसम्प्रदाये । भिन्नस्ततोऽथ च कथञ्चिदयं ततः किं, तस्माद् विशिष्टमतिरक्षभवा न तस्मिन् ।।११२।। अंशेन वृत्तिरुत किं निखिलात्मनांऽशे, त्वत्सम्मतावयविनोऽप्यथवा न साऽस्ति । इत्यादिदोषभयतो व्यतिरिक्ततैव, स्यात् सर्वथाऽक्षिचरणानुमताऽस्य लुप्ता ।।११३।। सोऽनन्तशक्तिकतया च भवेदनन्त - धर्मा ततोऽवयवसङ्घसमाश्रितोऽपि । किञ्चिच्चलत्यपि न गच्छति संस्थितोऽपि, नो स्थैर्यवान् भवति चित्रमचित्ररूपः ॥११४।। देशेन दृष्ट इह नैव भवेच्च दृष्टो, देशावृतोऽपि तदनावृत एष इष्टः । रक्तोऽप्यरक्त इह नैव विरोधचर्चा - ऽनन्तस्वभाववति वस्तुनि मानसिद्धे ।।११५।। नाऽस्य प्रथा भवति वा परमाणुपुञ्जाद्, यस्मान्महत्त्वमणुषूपगतं त्वया नो । संयुक्तताऽपि न च तेषु तव प्रसिद्धा - ऽदृश्याणुपुञ्जजनितं न च दृश्यपुञ्जम् ।।११६।। रूपादिभिन्नमिह नैव समस्ति किञ्चिद्, द्रव्यं त्वयेति कथितं नहि तच्च युक्तम् । दृष्टं स्पृशामि कनकादि स एव चाऽह - मित्यादिका मतिरुदेति न तद्विना यत् ।।११७।। स्पर्शो न नेत्रविषयो न च रूपमिष्टं, त्वग्गोचरं कथय कस्य भवेत् तथा धीः । द्रव्यं तदाश्रयतयाऽभ्युपगम्यते चेत्, तत्र द्वयोरपि तदा विषयत्वशक्तिः ।।११८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158