Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 35
________________ ॥ श्रीन्यायसिन्धुः ॥ स्वात्मप्रतिष्ठितमिदं जगदेव नो वै, वृत्तिः परस्य परधर्मिणि सम्प्रसिद्धा । तत्त्वेऽनवस्थितिलतापरिवेष्टनं स्या - नो भूतलाश्रितघटादिमतिस्ततोऽपि ।।८०॥ यश्चाऽणुदेश इह येन विशिष्ट इष्टो, नो तस्य नेत्रघटनाऽपि तदावृतत्वात् । योऽनावृतः स तु न तेन भवेद् विशिष्टो, देशादितोऽपि न विशिष्टमतिस्ततोऽक्षैः ।।८१।। किञ्चाऽक्षयोगविमुखानपि भावसार्थान्, प्रत्यक्षबोध इह चेदवगाहते ते । किं नो भवेदखिलतत्त्वप्रकाशिका धीः, सर्वज्ञवत् सकलसत्त्वसमाश्रिताऽपि ||८२॥ पूर्वादिके यदि तु सन्निधिमन्तरा ते, त्वक्षोत्थबोध उपपद्यत एव तर्हि । कस्मादनागतविनष्टपदार्थसार्थे - ऽध्यक्षा मतिर्भवति नैव तथैव भिन्ने ।।८३।। तस्माद् विशेषणमिहाऽथ विशेष्यमाभ्यां, संसर्गमज्ञजनता प्रथमं प्रकल्प्य । बोधं विशिष्टविषयं मनुते ततः किं, प्रत्यक्षताद्युपगमोऽपि भवेच्च तस्य ।।८४।। बौद्धमतखण्डनम् - एतन्न चारु सुगतानुगदर्शितं यत्, सर्वं पलालनिकरस्य समं विभाति । स्याद्वादलाञ्छितपदार्थमहेन्धनेद्ध - बोधाग्निना सममुपैति न च प्रतिष्ठम् ।।८५।। नाऽत्राऽक्षजस्त्वभिमतो निखिलोऽर्थबोधः, शब्दान्वितार्थविषयस्तव येन दोषः । अन्योन्यसंश्रयभवस्मरणेन जन्ये, शब्दावगाहिनि भवेन्नयनोत्थबोधे ।।८६।। जातिः समानपरिणामतया त्वयाऽपि, जैनैरिवैक्यमतिविभ्रमवादिनेष्टा । मन्तुं तथा विधिमुखस्य न प्रत्ययस्य, तुच्छावगाहनतयोपगमोऽपि युक्तः ।।८७।। नाऽपोह एव तव जातिपदाभिषिक्तः, स्यात् तां विनाऽनुगतबुद्धिभवे समर्थः । भेदद्वयाकलितमूर्तिरयं यतस्ते - ऽगोऽन्यत्वरूप इह सम्मत आगमन ।।८८।। गोव्यक्तिभेद उत किं सकलस्य गोर्वा, भेदो निविष्ट इह न प्रथमोऽत्र युक्तः । तत्त्वे हि गोष्वपि परस्परभिन्नभावाद्, गोभिन्नतैव न गवान्यविभिन्नता स्यात् ।।८९।। पक्षो द्वितीय इह तेऽनुमतो यदि स्या - ज्जातिस्तदा स्वरसतस्तत एव सिद्धा । जातिं विनाऽखिलगवप्रतियोगिकस्य, भेदस्य निर्वचनमेव न शक्यते यत् ।।९०।। तत्राऽप्यपोहघटना यदि ते मता स्यात्, किं नाऽनवस्थितिघटा परितस्तदानीम् । जातिर्न तार्किकमताऽत्र मते ततो न, त्वद्दोषभीतिरपि सम्भविनीति विद्धि ।।९१।। स्थानं जहाति नहि पूर्वमितस्तथा वा, नाऽन्यत्र गच्छति न वाऽशवती न जन्या । तद्देशवृत्तिकलिता न च तत्कुतः सा, गोव्यक्तिमात्रनियताऽभ्युपगन्तुमिष्टा ।।९२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158