Book Title: Nyayasindhu
Author(s): Nemisuri, Kirtitrai
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 34
________________ ॥ श्रीन्यायसिन्धुः ॥ किञ्चाऽक्षजाऽत्र सविकल्पकबुद्धिरेव, नेष्टा कुतो भवतु येन निरंशबुद्धेः । तद्वारतो नियतगोचरमानता ते, मानप्रसिद्धिपदवीमवलम्बमाना ।।६७।। सविकल्पकखण्डनरूपो बौद्धपूर्वपक्षः - नन्वत्र बुद्धतनया विविधैर्विकल्पै - दुःसन्दिहानमनसः प्रतिबोधनीयाः । यस्माद् विना नहि विशेषणगोचरत्वं, बुद्धौ मते तव विशिष्टमतित्वमिष्टम् ।।६८।। शब्दो विशेषणतया नहि भासतेऽर्थे - ऽध्यक्षान्न शाब्दिकमतं तत एव युक्तम् । शब्दो न नेत्रविषयो न स वर्ततेऽर्थे, न व्यापको न च ततोऽभिमतो ह्यभिन्नः ।।६९।। स्मृत्याऽपि तस्य नयनोत्थमतौ प्रकाशो - ऽन्योन्याश्रयेण नहि युज्यत एव यस्मात् । उद्बोधकाक्षजधियः स्मरणस्य जन्म, तस्माच्च सेति न भवेदुभयप्रसिद्धिः ।।७०।। जातिः समानमतितो न च सम्प्रसिद्धा, साऽपोहगोचरतयैव यतः प्रसिद्धा । तद्वत्त्वतोऽपि न विशिष्टतया घटादौ, बोधोदयो भवति गौतमतन्त्रसिद्धः ।।७१।। नो युज्यते त्ववयवी व्यतिरिक्त एकः, स्थूलस्ततोऽपि न विशिष्टमतेर्विलासः । द्रव्यं गुणाधिकरणं न च विद्यतेऽत्र, तस्मात् कथाऽपि न विशिष्टधियोऽक्षजायाः ।।७२ ।। बुद्धिघटादिविषया परमाणुपुञ्जाद, द्रव्यं न कोऽपि विषयीकुरुतेऽक्षमध्ये । रूपादयो हि नयनादिमतौ प्रथन्ते, द्रव्याणि नैव तु तदन्यतयेति विज्ञाः ।।७३।। संयोजनं विभजनं च पृथङ् न चाऽस्ति, भावादिहाऽणुनिचयात् कुत एव ताभ्याम् । कर्मप्रसिद्धिरपि येन विशिष्टबोध - स्तद्वत्त्वतोऽक्षजनितोऽनुमतो बुधानाम् ।।७४।। स्थैर्ये तथाऽस्य जननं च भवेत् कथञ्चि - नो वै क्षणक्षयमते सुगतानुगानाम् । अर्थक्रियादिघटना मत एव तस्मिन्, स्थैर्यं त्वविज्ञजनतानुमतं न युक्तम् ।।७५।। पूर्वापरादिविगतं खलु वर्तमान - मेवाऽक्षसन्निधिबलाद् विशदावभासे । बोधे परिस्फुटवपुः प्रथते न चाऽन्यत्, पूर्वादितोऽपि तत एव विशेषणं नो ।।७६।। दण्डीति बुद्धिरपि चाऽक्षसमुद्भवत्वे, किं नो भवेन्नियमतो वद सर्वपुंसाम् । येनैव दण्डसहकारिबलात् समर्थो, दृष्टोऽत्र किन्तु पुरुषो ननु तद्गतैव ।।७७।। दण्डस्तथा न च विशेषणमेव पुंस - स्तस्याऽपि किन्तु स विशेष्यतया मतोऽत्र । पुंसा तु येन पुरुषोपकृतेन दण्डे - नाऽऽलक्षितः फलभवो ननु तेन किं न ? ।।७८।। चेद् वस्तुतो यदि विशेष्यविशेषणत्वे, नैतादृशो विनिमयो भविता तदानीम् । तस्माद् विशिष्टमतिरक्षसमुद्भवा नो, युक्ता निरंशमतिरेव ततोऽर्थतश्च ।।७९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158