Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किं वा तपोभिर्भुवि सत्यवाचो जपैश्च किं वाऽत्र जितेन्द्रियस्य । किं नित्यतृप्तस्य महाव्रताद्यैः किं वा सतस्तीर्थनिमज्जनेन ॥६७॥ मृदुभाषी मितभाषी, सरिमतभाषी च सज्जनो नित्यम् । तमपि विनिन्दन्ति कथं, मूर्खा दुष्टाश्च वाचाटाः ॥६८॥ सुरपतिधनुरिव रम्यं, मिथ्या च भवत्यसज्जनेनोक्तम् । विपिनौषधिरिव कट्वी, सज्जनवाग् भवति सर्वदा सेव्या ॥६९॥ सज्जननिक रस्तूष्णी, तिष्ठति गर्जत्सु दुर्जनेष्वधिकम् । कोकिलवून्दं जोष, भवति हि काकेषु जृम्भमाणेषु ॥७॥ आलस्यं मालिन्यं, परहिंसा परुषता च दुष्टगुणाः । दक्षत्वं शुद्धत्वं, परोपकारो दया च शिष्टगुणाः ॥७१॥ सज्जनसङ्गो भवतान्मम सुकृतैः पूर्वसञ्चितैः सकलैः । सर्वाण्यन्यफलानि, स दास्यत्येको विनैव सन्देहम् ॥७२॥ मधुरालापविलासः, सज्जनताया न लक्षणं लोके । मञ्जुलपञ्चमचुचुर्वञ्चनचतुरा हि कोकिला दृष्टा ॥७३॥ अञ्चति वञ्चनचतुरः, कञ्चन कार्याय साधिते तस्मिन् । मुञ्चति निर्दाक्षिण्यं, तादृशमुझेद्धि सज्जनो दूरात् ॥७४॥ मानसमन्थनजाता, सकलैर्विबुधैर्हरिप्रियैः पीता । सज्जनवागेव सुधा, तयैव नाकायते सदा वसुधा ॥७५॥ सज्जनत्वमिह नाऽनुमन्महे यत्तदेव खलु दुःखकारणम् । सर्वलोकविपदां निवारणे यत्नमास्थितवतः कुतः सुखम् ॥७६॥ सज्जनान् अनुदिनं निपीडयस्यातनोषि सुखिनरत्वसज्जनान् । हे विधे! तव विवेकिता गता पूर्णतो विलयमित्यहं ब्रुवे ॥७७॥ न जन्मना कश्चन सज्जनः स्याद् रूपेण न प्राज्यधनेन नाऽपि ।
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154