Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
ह्रदसन्दोहदुःशकापाठीनाधीवरप्रवेशा, आनन्दितसकलसहृदयहृदया, सङ्क्लृप्ताखिलसंश्रितासङ्ख्यविपश्चित्कल्मषविलया, चतुर्दशप्रकरणशतीनिर्झरिणी पवित्रयाञ्चक्रुषी निखिलभूवलयम् ।
येन किलोद्दामवादमहारणाङ्गणे क्षणमात्रादेव प्रतिहतवितताभिमाना धिक्कारकारितत्तत्सभ्यादिवाक्कोटिलकुटतटाघातशून्यीभूतहृदया बौद्धा अपि माध्यमिकाः सन्तोऽपि सरलतरतालहिज्जलज्वलनसलिलजलधिद्विकलमलावलीरङ्गत्तुङ्गतुरङ्गभृङ्गकुरङ्गाङ्गारगिरिकान्तारहारविहारोदारप्राकारपुरप्रमुखानेकपदार्थसार्थानपश्यन्तः शून्यवादित्वमेवोररीचक्रिरे ।
__तथा प्रसर्पदर्पसम्भारोद्धरकन्धरा अपि प्रारब्धे येन सहोदारवादसङ्गरे क्षणमात्रादेव समीक्ष्य स्वीयाखर्वगर्वसर्वस्वहासं क्षणिकत्वमेवाऽशेषसंस्काराणां सूत्रयामासुः सौत्रान्तिकाः ।।
____ यस्य हि परमकोटिप्राप्तोदारज्ञानरमया आसादिताखिलभूमण्डलाखण्डलमण्डलीमहनीयमहिमानं समीक्ष्य विज्ञानस्यैव सारत्वं मन्यमाना अखिलत्रिभुवनवलयस्याऽपि तन्मयत्वमेव शरणीचक्रुर्योगाचाराः ।
इह हि षट्दर्शनाशेषवादि(त्व)सन्दोहा यदभिधानश्रवणादपि माद्यन्मदझरनिर्झरिणीप्ररोहोत्तुङ्गशृङ्गधराधरानुकारिस्फुरद्गन्धसिन्धुरोद्धरगन्धप्रकरविधुरितापरसिन्धुरधोरणीव विमुक्ताशेषमदोत्कट्या निर्व्याजोल्लसद्भक्तियुक्तीः प्रकटयन्तः प्रकटमेव यन्निकटमाटाटिषुः क्रमयुगलवरीवस्याघटनायै ।
__ तथा प्रीणयामासिवानमृतरसनिस्यन्दिवाग्विलासैस्त्रिजगतीं निजप्रतिभावैभवाभिभूतदेवसूरिदॆवसूरि म सूरिः । यस्य किलाऽशेषवादीन्द्रशिरःशेखरस्य पृथिवीप्राप्तप्रतिष्ठश्रीसिद्धचक्रवर्तिश्रीजयसिंहदेवोदारपरिषदि सङ्क्लृप्तोद्दामचतुरशीतिवादप्रतिवादिनिर्जयनोर्जिताखण्डपाण्डित्यरञ्जिताखिलभूपालचक्रवालप्रदत्तोत्तालमरालमण्डलोज्ज्वलचपलचारुचामर श्रेणिधवलविपुलातपत्रसिंहासनावलीचङ्गरङ्गत्तुङ्गतुरङ्गकिङ्करप्रकरप्रभृतिपरिच्छदापूर्णनिकटतटोत्कटाहङ्कारसम्भारभारितातन्द्रकुमुदचन्द्राभिधानाखिलव्योमाम्बराखण्डलविजयाजितप्रौढसत्कीर्तिनर्तकी जगत्त्रयोत्तुङ्गवंशाग्रनर्तनशीला कुरुतेऽद्याऽपि सकलसहृदयान् आनन्दसमास्कन्दास्कन्दान् । यन्निम्मितानेकयुक्तिव्यतिकराञ्चितोद्दण्डदण्डकस्फारवृत्तोत्कराप्रत्नरत्नरत्नाकरस्याद्वादरत्नाकरप्रमुखानेकसत्तर्कग्रन्थावली क़ां कां न चमच्चरीकरीति कोविदावलीम् ।
तथा उद्योतयामास श्रीमज्जिनशासनं दुःषमान्धकारसम्भारसंहारोद्यत्तरुणतरतरणिकरनिकरानुकारिप्रवरवाक्प्रचारः कोविदवृन्दवर्यः श्रीहेमचन्द्राचार्यः । यस्याऽविरलविमलवाग्लहरीनाशितानादिकालालीनदुर्निवारविस्फुरन्मोहाहिविषप्रसरः श्रीमद्गुर्जरधराधुराधरणधुरन्धरतामादधानः श्रीमत्कुमारपालभूपालः समुद्घोषयामासिवान्निखिलभुवनवलयेऽपि समस्तजगज्जन्तुव्रातरक्षोद्घोषणेन विलसद्यशःपटहम् । यस्य किल कलिकालसर्वज्ञेतिबिरुदानन्दितसज्जनमनसः सपादलक्षलक्षणच्छन्दोनुशासनालङ्कारचूडामणित्रिषष्टिशलाकापुरुषचरित्र-योगशास्त्र-प्रमाणमीमांसाप्रमुखानेकसत्तर्कग्रन्थग्रथनानुकम्पिताशेषविशेषविशेषज्ञस्य वैदुष्यविशेषव्यावर्णने किं ब्रूमः समधिकं मूढतारूढचेतोवृत्तयो, निखिलत्रैलोक्यवन्दनीयपादारविन्दयुगला भगवती शारदाऽपि न देध्रीयते सामर्थ्यम् ।
कोविदोत्तंसा बहवोऽप्यभूवन् विविधज्ञानादिगुणगुरवः श्रीमद्गुरवः । न खल्वेतेषां गुणपारावारपरपारं
४३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154