Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्म, उपायनानि प्रदत्ते स्म, किञ्चिद् वञ्चितोऽपि भवति स्म, तथाऽस्याः सर्वस्या अपि क्रीडाया विषये तत्क्रीडकानां च जनानां भावनाविषये स तयैव रीत्या विचारयति स्म यया रीत्या स पूर्वं देवानां ब्राह्मणानां च विषये विचारयन्नासीत् ।
कदाचित् तस्याऽन्तःकरणे एको मृदुः सौम्यो ध्वनिः श्रूयते स्म यस्तं निभृतं स्मारयति स्म निभृतमेव चाऽधिक्षिपति स्म, तथा निभृतं यथा स कष्टेन तं शृणोति स्म । ततः सहसैव सोऽपश्यत् यत् - सोऽपरिचितं जीवनं यापयति । बहूनि कार्याणि स क्रीडार्थमेव क्रीडारूपेणैव वा करोति, तथा यद्यपि स प्रसन्नोऽस्ति यथाकालं भौतिकसुखं चाऽप्यनुभवति, तथाऽपि सत्यजीवनं तु ततो वियुक्तमिवाऽस्पृशदिव प्रवहति । यथा कश्चन क्रीडकः स्वीयकन्दुकेन क्रीडति तथा स वाणिज्येन क्रीडन्नासीत्, तथैव च जनैः सह व्यवहरन्नासीत्; स तानवलोकयति स्म, तेषामाचरणाद् विनोदमपि प्राप्नोति स्म । एवंस्थितेऽपि तस्य हृदयं, तस्य मूलः स्वभावस्तत्र लीनो नाऽऽसीत् । तस्य मूलं स्वत्वं तु कुत्रचिदन्यत्रैव बम्भ्रम्यते स्माऽदृश्यतया, तस्य स्वत्वस्य तदीयजीवनेन सह न कोऽप्यनुबन्ध आसीत् ।
कदाचिच्च स एतेभ्य एतादृग्भ्यश्च विचारेभ्यो भयमपि प्राप्नोति स्म । जनानां बालिशं दैनन्दिनं व्यवहारमहमपि समग्रतया जीवामीति स्पृहा तच्चित्ते जागति स्म, तेषां जीवनेऽहं वास्तविकतया भागं गृह्णामि, तेषां जीवनमहमप्यास्वादयेयं जीवेयं च, न पुनतस्य प्रेक्षक एव भवेयमिति चाऽपि स काङ्क्षति स्म।
सुन्दर्याः कमलायाः पार्वे स प्रत्यहं गच्छति स्म । स ततः प्रेम्णः कलां तथा शिक्षितवान् यस्यामनन्यसदृशतयाऽऽदानं प्रदानं च तुल्यमेकं च भवति । स तया सह संलापानकरोत्, ततः सकाशात् शिक्षते स्म, तामुपदिशति स्म तस्याश्चोपदेशं शृणोति स्म । सैवेकाऽऽसीद् या तं समवबुध्यते स्म, गोविन्दतोऽप्यधिकं समवबुध्यते । सा हि सिद्धार्थसदृश्येवाऽऽसीत् । .
एकदा स तामुक्तवान् – 'भवती मत्सदृश्यस्ति, अन्यजनेभ्यो भिन्ना । भवती कमलैवाऽस्ति नाऽन्यत् किञ्चित् । भवत्या अन्तःकरणे मयीव निश्चलता स्वस्थता चाऽस्ति, एकं विश्रान्तिस्थानमस्ति यत्र भवती यदा कदाऽपि प्रतिनिवर्तितुं सहजा च भवितुं शक्नोति । केषांचिदेवेदृशी क्षमता भवेत् । यद्यपि सर्वोऽपि जन ईदृशो भवितुं शक्नुयात्' ।
'सर्वे जना न भवन्तीयन्तो दक्षाः' - कमला प्रोक्तवती ।
'कमले ! दक्षत्वेन नाऽस्ति किञ्चित् कार्यम्' - सिद्धार्थः कथितवान्, ‘पश्यतु, कामस्वामी हि मत्सदृश एव दक्षस्तथाऽपि तस्य नाऽस्त्येषा क्षमता । अन्ये केऽपि बालसमाना धारयन्ति तादृशीं क्षमताम् । प्रायशो जना वृक्षपतितपर्णतुल्या भवन्ति ये वायुना प्रेर्यमाणा इतस्तत उत्क्षिप्यमाणाश्चाऽन्ते भूमौ पतन्ति । अल्पाः किन्तु जनास्तादृशा भवन्ति ये हि नक्षत्रवत् निश्चिते पथि प्रयान्ति, वायुस्तान् चालयितुं न शक्नोति, तेषामन्तःकरणे एव मार्गदर्शको मार्गश्च विद्यते । यान् प्राज्ञपुरुषान् अहं जानामि तेषामन्यतमोऽत्र विषये सर्वथा परिपूर्णोऽस्ति । अहं तं न कदाऽपि विस्मर्तुं शक्तः । सोऽस्ति गौतमः - जगद्विश्रुतो भगवान् बुद्धः,
६६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154