Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जानाति स्म । वस्तुतः स एकः पवित्रो मनुष्य एकः सत्पुरुष आसीत्' ।
गोविन्द उक्तवान् – 'सिद्धार्थ ! मन्ये यद् भवते अद्याऽपि विनोदकरणं किञ्चिदिव रोचते । अहं भवन्तं श्रद्दधे, जानामि च यद् भवता कस्यचनाऽपि गुरोरनुसरणं नैव कृतम् । किन्तु, एतावताऽपि भवतः स्वयंसिद्धमेव किञ्चन ज्ञानं, केचन सिद्धान्ता विचारा वा न सन्ति यत्साहाय्येन भवान् सुखेन जीवति ? यदि भवानत्र विषये कञ्चित् कथयेत् तदा मे महान् सन्तोषो भविता' ।
सिद्धार्थः कथितवान् – 'आम्, ममाऽपि केचन विचाराः किञ्चिच्च ज्ञानमासीदेव । कदाचिच्च मुहूर्तमात्रं दिनार्धं वाऽहं ज्ञानविषयिकीं जागृतिं वहामि, यथा कश्चन स्वचित्ते कदाचिद् जीवनविषयिकीं जागृतिं धारयति । तथा ममाऽपि बहवो विचारा आसन्नेव किन्तु तेषां भवदग्रे निरूपणं मत्कृते कष्टदं स्यात्। अथाऽप्येको विचारो मां सदाऽपि आकृषति गोविन्द !, यत् - प्रज्ञाया: सङ्क्रमणं सर्वथाऽशक्यमस्ति । यदि कश्चन प्राज्ञो जनो प्रज्ञां कस्मैचिद् वितरीतुं प्रयतते तदा तदज्ञानमेव मे प्रतिभाति' ।
'किं भवान् परिहासं करोति वा ?'
‘नैव भोः ! । मया यदाविष्कृतमस्ति तदेव भवते कथयन्नस्मि । ज्ञानं हि परस्मै दातुं परस्मिन् वा सङ्क्रमयितुं शक्यं, न तु प्रज्ञा । कश्चन तां समासादयेत्, तया स्थिरो भवेत्, तामुपयुज्य च चमत्कारानपि कुर्यात् किन्तु तस्या वितरणं सङ्क्रमणं शिक्षणं वा कर्तुं तु सर्वथाऽशक्यम् । अहं तारुण्य एवैतस्मिन्नर्थे साशङ्क आसम् । अनेनैव च कारणेनाऽहं गुरूणां सान्निध्ये स्थिरो नैव जातः । अन्योऽप्येको विचारोऽस्ति गोविन्द ! यं भवान् परिहासं मूर्खत्वं वा मन्येत । स चैवमस्ति - प्रत्येकं सत्यस्य विपर्ययोऽपि समानतयैव सत्यमेवाऽस्ति । उदाहरणार्थं, यदि किञ्चित् सत्यमेकपक्षीयं स्यात् तदैव तत् शब्दैरभिव्यज्येताऽऽव्रियेत वा । प्रत्येकं विचाररूपं शब्दैश्चाऽभिव्यज्यमानं वस्तु एकदेशीयं सत्यमर्धसत्यम् । तस्मिन् साकल्यं पूर्णत्वमैक्यं वा नैवाऽस्ति । यथा, यदा महात्मा बुद्धो जगद्विषयकं तथ्यमुपदिष्टवांस्तदा तेन तत् संसारो निर्वाणं चेति द्विधा विभक्तव्यमापतितं; एवं सत्यं भ्रान्तिश्च बन्धनं मुक्तिश्च इत्यादि । अन्यथा च नैतच्छक्यमस्ति । उपदेष्टृणां कृतेऽन्या काऽपि पद्धतिरेव नाऽस्ति । एवं सत्यपि जगदिदं - अस्मदन्तः अस्मत्परितश्च वर्तमानं
हि न कदाऽप्येकदेशीयमेकाङ्गीयं वा भवति । कञ्चनाऽपि मनुष्यः किञ्चित् कृत्यं वाऽपि च सर्वथा संसाररूपं निर्वाणरूपं च वा नैव भवति । कोऽपि जन: सर्वथा पापी सर्वथा च सज्जनो वा नैव भवति । किन्तु अस्माकं यदेवं प्रतिभाति तत्र "कालः सद् द्रव्यमस्ती' 'ति भ्रम एव कारणम् । कालस्तु सद्द्द्रव्यं नास्त्येव गोविन्द ! | अहं बहुश एतदनुभूतवानस्मि । एवं च यदि काल एव सत् नाऽस्ति तदा जगत: शाश्वततत्त्वस्य च मध्ये, दुःखस्य आनन्दस्य च मध्ये, पुण्यस्य पापस्य च मध्ये या भेदरेखा दृश्यते सा केवलं भ्रम एवाऽस्ति' ।
Jain Education International
1
'एतत् कथं स्यात् ?' गोविन्दः ससम्भ्रमं पृष्टवान् ।
'पश्यतु मित्र ! अहं पापी अस्मि भवान् पापी अस्ति । किन्तु कदाचित् पापी ब्रह्मस्वरूपो भविष्यति,
1
१०६
-
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154