Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
किं स मायाया भ्रामकं रूपं नास्ति किल? केवलं प्रतिबिम्बमाभासो वा? भवतः पाषाणो भवतो वृक्षश्च - किमेतौ वास्तविकौ वा ?'
'एतदपि नास्त्येव मत्कृतेऽधिकक्लेशकरं ननु । यद्येते आभासरूपाः स्युस्तदाऽहमपि तादृगेव, ततश्चैतेषां मम च स्वभावः सदृश एव खलु ! एतदेव तत्त्वं तान् प्रेमार्हान् उपास्यांश्च करोति । एतदर्थमेव चाऽहं तान् प्रीणामि । ममैकः सिद्धान्तोऽस्ति यं ज्ञात्वा भवान् हासमपि करिष्यति । गोविन्द ! ममैवं भाति यदत्र जगति प्रेमैव सर्वथोत्कृष्टः पदार्थः । महतां चिन्तकानां कृते तु जगतः परीक्षणं, तव्याख्यानं तस्य तिरस्करणं च महत्त्वयुतं प्रतिभायात् किन्तु मम मतेन तु जगतः प्रेमकरणमेव महत्त्वयुतं न पुनस्तिरस्करणम् । परस्परमप्यस्माकं द्वेषकरणं नैवोचितं किन्तु जगतः स्वेषां, सर्वेषामपि च जीवानां प्रेमस्नेहादरैः स्वीकरणार्थमस्माकं समर्थीभवनमेवोचितं महत्त्वयुतं च' ।
'अहमवबुध्ये तत्, किन्तु भगवता बुद्धनेदमेव भ्रमो माया वा कथितम् । स कारुण्यं धैर्यं क्षमा सहानुभूति – सर्वमप्येतदुपदिष्टवान् न किन्तु प्रेम । सोऽस्माकं जागतिकप्रेमबन्धने पतनान्निषेधितवान् ।'
___ मधुरस्मितं कृत्वा सिद्धार्थेनोक्तं – 'गोविन्द ! अहं जानाम्येव तत् । तथा वयं शब्दानामर्थानां च विसंवादे कथं प्रवृत्ताः स्मस्तदप्युपलभ्यतेऽत्र । अहमेतत् प्रत्यादेष्टुं नैवेच्छामि यन्मे प्रेमविषयकाः शब्दा गौतमस्योपदेशेन सह स्पष्टतया विसङ्गताः सन्तीति । किन्त्वेतत्कारणादेव शब्देषु नैवाऽधिकं विश्वसिमि, यतोऽहं जानामि यदेषा विसङ्गतिहि केवलं भ्रमरूपैवाऽस्ति, अहं च गौतमेन सह सर्वथैक्यमनुभवामि । यो जगतोऽसारतां क्षणभङ्गरतां च सम्यक्तयाऽवबुद्धवान्, अथाऽपि यः सर्वेषु प्राणिषु स्निह्यन् तानुपदेष्टुमुपकर्तुं च स्वीयं समग्रमपि जीवनं व्ययितवान् समर्पितवांश्च स कथमिव प्रेमपदार्थं नैव जानीयात् न स्वीकुर्याद् वा ? अस्य महागुरोरिदमेव कृत्यं तच्छब्देभ्योऽप्यधिकं महत्त्वपूर्णं, तस्य कार्याणि जीवनं च तदभिप्रायेऽप्याधिक्येन महिमान्वितानि । अहं तं केवलं शब्दानां विचाराणां च कृते महात्मतया नैव सम्मानयामि किन्तु तस्य जीवनस्योत्तमकार्यजातस्य च कृते' ।
ततो द्वावपि वृद्धजनौ चिराय मौनमेवोपविष्टौ । ततो गोविन्देन गन्तव्यमासीदतः स उक्तवान् - 'सिद्धार्थ ! भवता स्वविचारा यत् प्रकाशितास्तदर्थं नितरां कृतज्ञोऽस्मि । तेषु केचन विचाराः किञ्चिदिव विलक्षणाः सन्ति, अहं शीघ्रतया तानाकलयितुमसमर्थोऽस्मि । तथाऽपि, भवतः उपकारं मन्ये, भवतो जीवनं शान्तिमयं भवेदित्याशासे च' ।
स यद्यप्येवं वदन्नासीत् तथाऽप्यन्तस्तले तु सोऽचिन्तयद् यत् - सिद्धार्थो हि विचित्रो जनो, विचित्रांश्च विचारानभिव्यनक्ति । तस्य कल्पना भ्रान्ता इव लक्ष्यन्ते । महात्मनो बुद्धस्य सिद्धान्तास्तु ततः कियन्तो भिन्नाः सन्ति खलु ! ते हि स्पष्टाः सरलाः सुबोधाश्च सन्ति, तेषु नास्ति किञ्चिद् विलक्षणमयुक्तिकमुपहासयोग्यं वा । एवं सत्यपि सिद्धार्थस्य हस्तौ, पादौ, नेत्रे, ध्रुवौ, श्वसनं, स्मितं, प्रणतिः, गतिश्चेति सर्वमपि तस्य विचारेभ्यो भिन्नरूपेण मां प्रभावितं करोति । भगवतो गौतमबुद्धस्य निर्वाणानन्तरं
१०९
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154