Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दृष्टवान् । स स्थिराणि शीतलानि शून्यानि विस्तीर्णानि च शवानि दृष्टवान् । स पशूनां, शूकराणां, मकराणां, करिणां, वृषभाणां, पक्षिणां च मस्तकानि दृष्टवान् । स कृष्णमग्नि च दृष्टवान् । स एतान् आकारान्, वदनानि चैतानि परस्परं सहस्रधा सम्बद्धानि, अन्योन्यं साहाय्यकराणि, स्निह्यमानानि, द्वेषकराणि, विनाशकराणि च दृष्टवान् । प्रत्येकमेतानि मरणशीलानि, उत्कटानि पीडाकराणि च क्षणभङ्गरत्वोदाहरणानि आसन् । एवंस्थितेऽपि तेषामन्यतमदपि नैवाऽम्रियताऽनश्यत वा, केवलं तानि परावर्तितानि, पुनर्जन्म प्राप्तानि, निरन्तरं च नूतनं वदनं धारयन्ति आसन् – केवलं काल एव नव-पुराणयोर्वदनयोर्मध्येऽतिष्ठत । एते सर्वेऽपि आकारा वदनानि च विरमन्ति स्म, प्रवहन्ति स्म, पुनर्जायन्ते स्म, अतीतं तरन्ति स्म, परस्परेण च संयुज्यन्ते स्म । तथैतेषां सर्वेषामप्युपरिष्टात् सातत्येन किञ्चित् सूक्ष्ममवास्तविकमप्यस्तित्वमयं, श्लक्ष्णकाचवद्, हिमवत्, पारदर्शकचर्मवत्, कवचवत्, जलावरणवत् वा विस्तृताकारं दष्टवान्, तच्चाऽऽवरणमासीत् सिद्धार्थस्य वदनं - स्मितपूर्णं वदनं, यत् स्वीयौष्ठाभ्यां गोविन्दस्तदा स्पृशन्नासीत् । गोविन्देन दृष्टं यदिदमावरणतुल्यं स्मितं, प्रवहमानानामाकाराणामैक्यतुल्यं स्मितं, सहस्रशो जन्म-मरणानां समकालीनत्वरूपं स्मितं - सिद्धार्थस्य स्मितमिदं सम्पूर्णतया तथैव मृदु, प्रशान्तं, गहनं, प्रसन्नं, सोपहासं, धीरं, सहस्रपुटयुतं चाऽऽसीद् यथा भगवतो गौतमबुद्धस्याऽऽसीत्, यच्च स सहस्रशः समादरेण विलोकितवानासीत् । यथा स पूर्णत्वं प्राप्तो भगवान् स्मयति स्म तथैवेदमपि सिद्धार्थस्य स्मितमासीत् ।
कालोऽस्ति न वेत्यतः परं सर्वथाऽजानानः, इदमपरोक्षं ज्ञानं क्षणमात्रस्थितिकमुत वर्षशतं यावत् स्थितमित्यप्यनवगच्छन्, अयं सिद्धार्थोऽस्ति किं वा गौतमोऽस्तीत्यनवबुध्यमानः, स्वमन्यांश्च प्रति सर्वथाऽनवधानः, दिव्यानुग्रहशरेण गाढं विद्धस्ततश्चाऽवर्णनीयसुखमग्नः, गहनानन्दमग्न उदात्तभावश्च गोविन्दः सिद्धार्थस्य प्रशान्तवदनस्य पुरतो बहुकालं यावत् तथैवाऽवनम्य स्थितवान्, यत् स इदमिदानीमेव चुम्बितवानासीत्, यच्चाऽतीतानागतानां सर्वेषामप्याकाराणामेकमास्पदं जातमासीत् । यदा चैते सहस्रशः आकारास्तान् प्रतिबिम्बयंश्चाऽयं सहस्रपुटो दर्पणो विलीना जातास्तदाऽपि तस्य मुखमुद्रा तु तथैव विलसन्ती आसीत् । स प्रशान्तं, मृदु; सोपहासं, सर्वथा च भगवतो बुद्धस्य सदृशं स्मितं कुर्वन्नासीत् ।
गोविन्दस्तं प्रति प्रणतिं कृतवान् । तस्य वृद्धे नयने मन्दमन्दमनियन्त्र्याणि अश्रूणि स्रवतः स्म । स दिव्यप्रेमानुभूत्या विनयपूर्णादरभावेन चाऽऽक्रान्तोऽभवत् । स भूमौ शिरः स्थापयित्वा सर्वथा स्थिरतयोपविष्टस्य सिद्धार्थस्य पुरतो वन्दनं कृतवान् - यस्य स्मितं, तस्य जीवने यत्र कुत्राऽपि तेन प्रेमानुभूतिः कृताऽऽसीत्, यत्किमपि च मूल्यवत् पवित्रं चाऽऽसीत्, तत् सर्वमपि स्मारितवत् ।
१११
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154