Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 125
________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) गाम्भीर्यम् गुरोः शिष्येणैकेनैकदा कश्चन गभीरोऽपराधः कृतः । अतोऽन्यैः शिष्यैरनुयायिभिश्च चिन्तितं यदद्य गुरुरेनमवश्यं दण्डयिष्यति । किन्तु यदा मासे व्यतीतेऽपि गुरुणा न किमपि कृतं कथितं वा तस्य तदा केनचिच्छिष्येण गुरोस्तत् स्मारयतेव कथितं – 'यज्जातमस्ति तत् सर्वथैव नाऽर्हत्युपेक्षाम् । किं बहुना कथितेन ? यतो भगवताऽस्मभ्यं सर्वेभ्यो नेत्रे प्रदत्ते स्तः' । 'आम्', इति सस्मितं प्रत्युत्तरं ददता गुरुणा कथितं – 'तथा नेत्रच्छदे अपि !!' । (२) विवादस्य निवारणं नाम.... अन्यदा गुरुणोक्तं यदेते मानसचिकित्सका यद्यपि केषाञ्चित् प्रश्नानां विवादानां वा समाधानार्थमुपकारका एव तथाऽपि तेषां मुख्यं कार्यं तु विवादस्योपशमनमेव न तून्मूलनं निवारणं वा । तेषां कृते समाधानं नाम अन्यस्मिन् सुखकरे विवादे चित्तस्याऽभिमुखीकरणं, येन पूर्वतनाद् विवादाच्चित्तं निवर्तेत । अत्र च विषये स एकमुदाहरणं कथितवान् – एकस्मिन् बस्-याने कश्चन यात्रिकः स्वीयेऽङ्के किञ्चन महाभारयुतं वस्तु वृत्तपत्रसंवेष्टितं धारयन्नुपविष्ट आसीत् । 'एतत् किमस्ति भोः ?' – याननिर्वाहकस्तं पृष्टवान् । 'अहो ! एतदस्त्यप्रस्फुटितमग्निनगोलकास्त्रम् । अहमेतदग्निशमनकार्यालयं प्रति नयन्नस्मि' इति तेनोक्तम् । 'अतीव भयानकमिदमस्ति भोः ! । भवतैतादृशं वस्तु स्वोत्सङ्गे नैव धारणीयं कदाऽपि । भवत आसन्दस्याऽधस्तात् तत् स्थापयतु तावत् !!' (३) चक्रकम् एको भूस्वामी गुरोः पार्वे आगतः । गुरुणाऽपि तत्कक्षामवगत्य तेन सहाऽन्यान्यविषयक: संलापः कृतः । ११६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154