Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 142
________________ मर्म नर्म कीर्तित्रयी भवान् किमर्थं विस्फोटकनिर्माणोद्योगे कार्यं करोति ? अहो ! अहं धूमपानं त्यक्तुमिच्छामि, इत्यतः !! - किं भवत्याः पतिरश्वधावनस्पर्धाविषये किञ्चिज्जानाति वा ? - प्रारम्भादन्तं यावज्जानाति सः । स्पर्धायाः पूर्वं कतमोऽश्वो जेष्यतीति स सहेतु-कारणं जानाति, स्पर्धानन्तरं च सोऽश्वः किमर्थं नाऽजयदित्यपि स्पष्टतया जानाति !! । प्रायः प्रत्येकं जनस्य द्वौ पाश्वौं भवतः । एकः सः, यं तस्य पत्नी जानाति; अपरः सः, यं तस्य पत्नी नैव जानाति - इति स चिन्तयति !! १३३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154