Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सहसा स सनिःश्वासमवदत् – 'यदि यम स्वाम्ये इतोऽप्यधिका भूः स्यात् तदा वरम् !' । 'किमर्थं भोः! ? एतावताऽपि भवत्सकाशे पर्याप्ता भूरस्ति' – गुरुणा पृष्टम् । 'यद्यधिका भूः स्यात् तदाऽधिका गा: पालयेयम्' इति तेनोक्तम् । 'ततः किं स्यात् ?' 'गा विक्रीय धनमर्जयेयम्' । 'तेन किं स्यात् ?' 'अधिकां भुवं क्रीत्वाऽधिकाधिका गाः पालयेयम् !!'
[त्रयमप्येतत् One Minute nonsense
इति पुस्तकाधारेण लिखितम् ।]
(४) अल्पः परिश्रम.......
मुल्ला-नसीरुद्दीनो यद्यपि मेधावी सुचतुरश्चाऽऽसीत् तथाऽपि तद्व्यक्तित्वमालस्येन संभृतमासीत् । अत आदिनं किमपि कार्यमकुर्वन् स खट्वायां शयानो भवति स्म विविधं च कल्पनाजालं रचयति स्म । तत्पत्न्या गृहकार्याणि तु कर्तव्यान्येव भवन्ति स्म, बहिस्तादपि तयैव कार्यार्थं धावितव्यं भवति स्म । अत एकदा कुपितया तया सभर्त्सनं स उक्तः - 'किमित्यादिनं भवान् शयितः सन् दिवास्वप्नान् पश्यति ? अहं तु कार्याणि कुर्वती सती भृशं श्रान्ता भवामि तथाऽपि भवान् न किमपि लक्षयति ? अद्य भवान् विपणिं गत्वा पञ्च किलोमितांस्तण्डुलान् क्रीत्वा समानयतु, अन्यथाऽद्य भोजनं नैव पक्ष्यते !'
___ 'भोजनं विना कथं स्थातव्य'मिति चिन्तयन् नसीरुद्दीनो विमनस्कोऽपि सन् स्यूतं गृहीत्वा विपणि प्राप्तः । तत्र च धान्यविक्रेतुरापणं गत्वा तण्डुलस्य मूल्यं पृष्टवान् । आपणिकेनोक्तं 'किलोमितस्य दश रूप्यकाणी'ति । अनेनोक्तं – ‘एवं, तर्हि पञ्च किलोमितान् ददातु' । आपणिकेन चिन्तितं – 'जनोऽयं न कदाऽपि क्रयणार्थमागच्छति । प्रायशस्तत्पत्न्येव समागच्छति । मूर्खश्चाऽसौ परिलक्ष्यते । अतो यद्यस्मै न्यूनं तोलयित्वा दद्यां तदाऽपि नैव जानीयात् सः' । ततश्च स तस्मै यथाकथमपि तोलयित्वा न्यूनान् तण्डुलान् प्रदत्तवान् ।
नसीरुद्दीनेन तल्लक्षित्वाऽऽपणिकाय कथितं – 'भोः ! किमिति न्यूनान् तण्डुलान् ददाति ?' तदा नसीरुद्दीनस्याऽऽलस्यप्रियतां स्मृत्वा तेनोक्तं – 'भोः ! भवताऽल्पीयान् भार उन्नेतव्यः स्यादित्यतः !' तच्छ्रुत्वा स्मयन् नसीरुद्दीनः स्यूतमुत्पाट्य तण्डुलमूल्यं चाऽऽपणिकाय प्रदाय प्रस्थितः । आपणिकेन तत्प्रदत्तं धनं गणयित्वोच्चैः कथितं – 'भोः ! भवता किमिति चत्वारिंशदेव रूप्यकाणि प्रदत्तानि ?' गच्छतैव तेनोक्तं – 'भवतो गणनपरिश्रमोऽल्प: स्यादित्यतः !!' |
११७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154