Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'श्रीराजेन्द्रप्रसादोऽभूद् भारतस्य राष्ट्रपतिः । षड्विंशतिजनवरीव्योमशरनिधीश २६-१-१९५० तः ॥ त्रयोदशमयिनेत्ररसग्रहेश १३-५-१९९२ हायन -
पर्यन्तं भारतरत्नं स मुदाऽकरोच्छासनम् ॥' (संस्कृतकवितासृष्टिः २७०-२७१) श्रीशारदास्तोत्रे संस्कृतभाषाया गौरवं सस्मर्यते कविवर्येण रम्यतया -
'वेदाश्च यत्र लिखिता ऋषिभिः प्रसिद्धाः, ग्रन्थाः कृता इह महाकविभिः प्रबन्धाः । नानाविधाश्च रचना प्रददाति या हि,
तामत्र संस्कृतगिरा सततं नमामि ॥” (संस्कृतकवितासृष्टिः २०) भारतीयसंस्कृतेर्महनीयतत्त्वानि (मातृभक्तिः, तीर्थम्, आर्तरक्षा, त्यागः, सतीत्वम्, समता, राष्ट्रप्रेम) 'मातृभूमि', 'वनदेवी', 'तारकं तीर्थम्', 'अम्बरीषचरितम्', 'त्रिपिण्डश्राद्धम्', 'सावित्रीचरितम्', 'अपालाचरितम्', 'यशोधराचरितम्', 'भामतीचरितम्', 'चैतन्यचरितम्', 'सत्यवतीचरितम्', 'तुलसीदासचरितम्', 'सावरकरचरितम्', 'सुकन्याचरितम्' चेत्यादिकवितासु वर्णितानि सन्ति । तद्यथा -
'कौसल्या त्वमसि भूमे ! देवकी यशोदापि च । व्यचरन् त्वयि युद्धेषु शिवाजी - प्रतापादयः ॥' (सैव २४) 'सत्यस्तीर्थं क्षमातीर्थं तीर्थमिन्द्रियनिग्रहः । दया तीर्थं दमस्तीर्थं दानं च तीर्थं कथ्यते ॥' (सैव ९१) । 'निरीहदुःखिरक्षायै संघर्षेण दुःखैः सह । यो वीरगति प्राप्नोति स्वर्गे स हि सम्मान्यते ॥' (सैव १०४) 'विवाहो मे न भोगाय, जीवेद् विद्वत्परम्परा । सेवा तस्याऽऽवश्यकता येन स रचनां लिखेत् ॥' (सैव २४३) 'हरिदृष्टौ न कोऽप्युच्चो न नीचोऽत्र कोऽप्यस्ति भोः । आवयोरस्ति भेदो न यथाऽसि त्वं तथाऽस्म्यहम् ॥' (सैव २६८) 'तेषामेव कुसुमानां जीवनमस्ति सार्थकम् ।
यानि देवचरणेषु समर्प्यन्ते हि सादरम् ॥' (सैव ४१५)
अत्र 'तुलसीदासचरितम्' इति कवितायां कविवृषभस्य गोस्वामितुलसीदासस्य जन्मस्थानं 'सोरोंशूकरक्षेत्रे' इति कथ्यते । परम्परया गोरक्षपुरस्थगीताप्रेसतः प्रकाशितेषु श्रीरामचरितमानसस्य च १. 'सत्यम्' इति पाठः स्यात् ।। २. 'सोरोंशूकरक्षेत्रेऽस्मिन्.... भार्याहुलसीजठरात्समुत्पन्न एकः शिशुः ॥' (सैव ३१४-३१५)
११४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154