Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अनुवादः
तरणोपायः मुनिधर्मकीर्तिविजयः
मनुष्येषु मूलत एवोत्तमत्वमंस्ति, सद्गुणान् प्रति निष्ठाऽस्ति । तासां सद्वृत्तीनां मूलोपरि समाजरचना करणीयाऽस्ति ।
अद्यावधि मानवमनः तथैव भूतकालस्य बन्धनेन, ग्रथिलमस्ति । अद्यतनकालस्य महत्यावश्यकाऽस्ति - मानसिकपरिवर्तनम् । समाजो मानवतानिष्ठो भवेत् - तथाविधं परिवर्तनमुपयोग्यस्ति | जीवनस्य सकलेष्वपि क्षेत्रेषु जनशिक्षणेन जनजागरणेन च शुभसंस्कारसेचनस्याऽऽन्दोलनमेव तरणोपायोऽस्ति ।
न धार्मिकवादो न संप्रदायवादो, न वैचारिकवादः, नाऽऽध्यात्मिकवादश्च इत्याद्यनाग्रहिचित्तधारका मानवीयतत्त्वोपासकाश्चाऽत्युपयोगिनः सन्ति साम्प्रतम् । ये नेतृत्वं नेच्छन्ति, अपि तु जीवनसाधनां लक्ष्यीकृत्य देशस्य कृते जीवनं समर्पयेयुः तादृशानां जनानां समाजो रचनीयोऽस्ति ।
अनेकान् जनान् प्रवचने गच्छतः पश्याम्यहं, मन्दिरे मस्जिदे च गच्छतः पश्याम्यहं तदा मे हृदि कम्पनं जागर्ति; आध्यात्मिकप्रवचनं कुर्वतां जनानां महत्सु सभासु सत्सङ्गेषु शिबिरेषु चाऽनेके जना गच्छन्ति । यदि आध्यात्मिकी जिज्ञासाऽपि जगतो लोकाचारो ( Fashion) भवेत्, असंस्कारिता व्यापारप्रवृत्तिरूपा च भवेत् तर्हि दुःखस्याऽन्त एव न स्यात् ।
महापुरुषाणां दर्शनं, तेषां शुभविचाराणां श्रवणं च करणीयमेव, किन्तु यदि तत्रैव समाप्तिर्भवेत् तर्हि समाजे नवीनतम दम्भः प्रसरिष्यति ।
Jain Education International
११२
For Personal & Private Use Only
ले. विमला ठाकर (अध्यात्मनी अग्निशिखा)
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154