Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 119
________________ सिद्धार्थेन विना नाऽहं तादृशमेकमपि जनं न प्रत्यक्षीकृतवान् यं दृष्ट्वा 'अयं सर्वथा पवित्रो जनः' इति प्रतीतिः स्यात् । भवन्तु नाम तस्य कल्पना विचित्राः, स्युर्नाम च तस्य वचांसि निरर्थकानि, किन्तु तस्य दृष्टिस्तस्य च हस्तः, तस्य त्वक् केशाश्चेति सर्वमपि पवित्रतां, शान्ति, प्रसन्नतां, सौजन्यं, साधुतां चैव प्रसारयति; एतच्च मयाऽस्माकं महागुरोनिर्वाणानन्तरं न कुत्रचिदपि जने दृष्टमस्ति' । ___ एवं विचारयन् गोविन्दः संशयितचित्तः सन्नेव सिद्धार्थं प्रणतवान्, मौनेन शान्ततयोपविष्टं सिद्धार्थ स भावपूर्वकं नतः । ततस्तेनोक्तं - 'सिद्धार्थ ! आवां वार्धक्यग्रस्तौ जातावधुना । इतः परं जीवने आवां न कदाचिदपि परस्परं द्रक्ष्यावः । मम प्रियमित्र ! भवता शान्तिः प्राप्ताऽस्तीति साक्षात् विलोकयामि, तथैवाऽनुभवाम्यपि यन्मया सा नैव प्राप्ताऽस्ति । समादरणीयमित्र ! कृपया मे शब्दमेकं वा कथयतु यमहं सम्यगवबोद्धं शक्नुयाम् । सिद्धार्थ ! तादृशं किञ्चन मे ददातु यन्मम पथ्युपयोगि स्यात्, यतो मे पन्था हि प्रायः कठिनस्तमसाऽऽवृतश्चाऽस्ति' । निःशब्दः सिद्धार्थस्तं मृदुना प्रशान्तेन स्मितेन सह विलोकितवान् । गोविन्दः स्थिरतया तद्वदनमेव पश्यन्नासीत् - सौत्सुक्यं सस्पृहं च । दुःखसहनं, निरन्तरं सत्यान्वेषणस्य श्रान्तिनिरन्तरा च निष्फलता तस्य दृष्टौ संलक्ष्यते स्म । सिद्धार्थस्तल्लक्षित्वा स्मयमान एव तत्कर्णेऽत्यन्तं मन्दतयर्जुतया च कथितवान् – 'इतोऽपि किञ्चिन्निकटमायातु, इतोऽपि निकटम् । इदानीं मम ललाटे चुम्बनं करोतु' । ____एतन्निशम्य गोविन्दो यद्यपि किञ्चिद्विस्मितोऽभवत् तथाऽपि केनचिदकथ्येन संवेदनेन प्रेमाधिक्येन च वशीभूतः स तदादेशमनुसृत्य प्रह्वीभूतः सन् समीपमागतः स्वीयाधरद्वयेन च तस्य ललाटं संस्पृष्टवान् । संस्पृष्टमात्र एव तत्र किञ्चिदद्भुतं संवेदनं तेनाऽनुभूतम् । इतोऽपि तन्मानसे सिद्धार्थस्य विचित्राः शब्दाः प्रतिफलन्त आसन, इतोऽपि स कालस्य कल्पनामपास्तुं निरर्थकतया प्रयतमान आसीत्, संसारनिर्वाणयोरैक्यमवगन्तुं यत्नं कुर्वन्नासीत्, इतोऽपि च तन्मानसे मित्रस्य शब्दानधिकृत्य प्रकटितोऽनादरस्तं प्रति जातेन दुर्निवारप्रेम्णा पूज्यभावेन च सह विवदन्नासीत् तावतैवैतत् संवेदनं घटितम् । तस्येदानीं स्वमित्रस्य सिद्धार्थस्य वदनं नैव दृश्यते स्म, प्रत्युताऽन्यान्येव वदनानि स दृष्टवान्, बहूनि वदनानि, दी(काऽऽवलिरेव वदनानां, निरन्तरो वदनप्रवाहः - शतशः सहस्रशो वदनानि, यानि क्षणं स्थित्वाऽदृश्यीभवन्ति स्म, तथाऽपि च तत्रैव सन्तीति प्रतिभासमानानि आसन, यानि च प्रतिक्षणं स्वयमेव परावर्तमानानि नावीन्यं च प्राप्यमाणानि आसन्, तथाऽपि सर्वाणि सिद्धार्थसत्कान्येवाऽऽसन् । स कस्याश्चित् शफर्याऽतिमहत्तरया व्यादत्तं मुखं दृष्टवान्, कस्यचिन्मरणोन्मुखस्य निष्प्रभलोचनस्य मीनस्य मुखं दृष्टवान् । स कस्यचन नवजातस्य शिशो रक्तवर्णं वलीपूर्णं रोदनप्रवणं च मुखं विलोकितवान् । मनुजशरीरं छुरिकया प्रहरतः कस्यचित् हिंसकस्य मुखं स दृष्टवान्, समकालमेव च स तं हिंसकं मस्तकमानम्य जान्वोरुपविष्टं वधकेन च च्छिद्यमानमस्तकं दृष्टवान् । स कामकेलिरतानां स्त्री-पुरुषाणां शरीराणि - विविधमुद्रास्थितानि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154