Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 122
________________ ग्रन्थसमीक्षा 'संस्कृतकवितासृष्टिः' __ (संस्कृतकवितासंग्रहः) समीक्षकः डा. रूपनारायणपाण्डेयः [रचयिता तथा प्रकाशकः डा. रामकिशोरमिश्रः । आवासः - २९५/१४, पट्टीरामपुरम्, खेकड़ा - २५०१०१, उ.प्र., दूरभाषाङ्गाः (०१२१) २२३३५२७, पृ.सं. ११२, मूल्यम् १००/-] विविधविद्यासु विविधविषयान् समाश्रित्य सुरभारतीसाहित्यसमृद्धि संवर्धयन्तो विश्वविदिताः केचनैव विद्वांसः कवयो लेखकाश्च साम्प्रतं विराजन्ते, तेषु वार्धक्येऽपि संस्कृतग्रन्थानां प्रणयने प्रकाशने च निरतोऽस्ति डा. रामकिशोरमिश्रमहाभागः । तेनैव २०७०तमे विक्रमाब्दे संस्कृतकवितासृष्टिः प्राकाश्यं नीता। ___ ग्रन्थेऽस्मिन् - श्रीगरुडध्वजस्तोत्रम्, श्रीवृषमध्वजस्तोत्रम्, श्रीकिरणध्वजस्तोत्रम्, श्रीशारदास्तोत्रम्, मातृभूमिः, तृष्णा, भस्मासुरचरितम्, शनैश्चरचरितम्, वनदेवा, अश्वमेधयज्ञः, आनन्दमयजीवितम्, तारकं तीर्थम्, अम्बरीषचरितम्, त्रिपिण्डश्राद्धम्, मृत्योः पश्चान्न वैरम्, जगद्गुरुः, शुभविचारवान्, प्रजापतेरुपदेशः, दिव्यपुरुषप्राप्तिः, चतुर्माससमयः, सावित्रीचरितम्, अष्टावक्रचरितम्, अपालाचरितम्, यशोधराचरितम्, भामतीचरितम्, पुत्रमोहः, चैतन्यचरितम्, भारतराष्ट्रपतयः, ईश्वरकृपा, भारतस्य प्रधानमन्त्रिणः, तुलसीदासचरितम्, मृत्युः सत्यः, सत्यवतीचरितम्, भारतस्योपराष्ट्रपतयः, साधोरुपदेशः, सावरकरचरितम्, सुकन्याचरितम्, कचदेवयानीचरितम्, श्रीशशकध्वजस्तोत्रम्, शाकुन्तलशतकम्, ययातिदेवयानीशर्मिष्ठाशतकम्, शुक्राचार्यशापः, कपिलदेवोपदेशः, आत्मनियन्त्रणम्, ध्रुवचरितं चेति कविताः शोभन्ते । (पद्यसंख्या ८६७) यद्यपि ग्रन्थेऽस्मिन् कानिचन श्रीगरुडध्वजस्तोत्रादिकानि परिहाय प्रायशः सकला रचनाः पौराणिकानि पुरावृत्तानि समाश्रित्य सरलया भाषया नूतनया च विधया विरचिता विलसन्ति, तथाऽपि 'भारतराष्ट्रपतयः', 'भारतस्य प्रधानमन्त्रिणः', 'भारतस्योपराष्ट्रपतयः' चेत्यादयः काश्चन रचना आधुनिकछात्राणां कृते नितरामुपयोगिन्यः सन्ति । ते तासां पठनेन संस्मरणेन वा भारतस्य राष्ट्रपत्यादीनां नामानि कार्यावधि च सुगमतयाऽवगन्तुं शक्नुवन्ति । अत्र कालनिर्देशः समेषां सुबोधायाऽङ्कतोऽपि विहितः । वक्ष्यमाणयोः पद्ययोः प्रथमराष्ट्रपतेः कार्यकालो द्रष्टव्योऽस्ति । ११३ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154