Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
निर्वाणं प्राप्स्यति, बुद्धो भविष्यत्येव । अथाऽत्र यदिदं 'कदाचित्' इत्यस्ति तद् भ्रम एव, तद्धि केवलमुपमानमेवाऽस्ति । पापी हि बुद्धत्वप्राप्तेर्मार्गे नैव वर्तते, उत्क्रमणार्थं च नैव प्रयतते कदाऽपि । किन्तु वयमन्यरीत्या चिन्तयितुमालोचयितुं वा नैव प्रभवामः । वस्तुतः सम्भाव्यतारूपो बुद्धः पापिन्यपि विद्यत एव । तस्य भविष्यत् तत्राऽस्त्येव । शक्यस्वरूपोऽयं बुद्धः सुषुप्तो बुद्धस्त्वयि मयि तस्मिन् सर्वस्मिश्चाऽपि प्रतिपत्तव्य एव भवति । गोविन्द ! जगदिदं हि नाऽस्त्यपूर्णं नाऽपि च दीर्घपथेन पूर्णत्वं प्रति उत्क्रान्तिमत् । तत् तु प्रतिक्षणं सर्वथा पूर्णमेवाऽस्ति । प्रत्येकं पापमन्तर्निहितपुण्यबीजमेव भवति, प्रत्येकं शिशुर्वार्धक्यसम्भावनां स्वस्मिन् धारयत्येव, प्रत्येकं स्तनन्धये मृत्योः शक्यता निहिताऽस्त्येव, प्रत्येकं मरणासन्नो स्वस्मिन् शाश्वततत्त्वं धारयत्येव । इतरो जनो मार्गे कियद्दूरे वर्तते इति ज्ञातुं न केनाऽपि शक्यते । यतः, कस्मिंश्चिल्लुण्टाके द्यूतकारे वाऽपि बुद्धो वर्तेत, कस्मिंश्चिच्च ब्राह्मणेऽपि लुण्टाको विद्येताऽपि । गाढध्यानवेलायां समाधौ वैव कालातिक्रमणं शक्यं, युगपदेव भूत-वर्तमानानागतं च द्रष्टुं शक्यं; ततश्च प्रत्येकं वस्तु पूर्णमेव, शुभमेव, ब्रह्मैव । अतो ममेदं प्रतिभाति यद् अस्तित्वयुतं प्रत्येकं वस्तु शुभमेवाऽस्ति - मरणं जीवनं चाऽपि, पापं च पुण्यं च, वैदुष्यं च मूर्खत्वं चाऽपि । प्रत्येकं वस्तु यथावस्थितं सुन्दरमेवाऽस्ति, प्रत्येकं वस्तु ममाऽनुमति ममाऽभ्युपगमं चैवाऽपेक्षते, मम स्नेहं सद्भावमेव च प्रतीक्षते । यद्येतत् स्यात् तदा मम सर्वत्र-सर्वदा च शुभमेव भवति, न किञ्चिदपि च मामुपद्रोतुं पीडयितुं वा समर्थं भवति ।
अहं मे शरीरादात्मनश्च सकाशात् बढेव शिक्षितवान् यथा - मया पापं कर्तव्यमनिवार्यमासीत्, कामासक्तिमत्कृते आवश्यक्यासीत्, धन-वैभवप्राप्त्यर्थं मया प्रयतनीयमासीत्; निर्वेदो निराशायाश्च परिसीमा, तत्प्रतीकारकरणं यया रीत्या विस्मरेयं, सर्वस्याऽपि जगतः प्रेम कर्तुं शिक्षेयं, केनचित् काल्पनिकतया पूर्णेन जगता तस्य तोलनं च न कुर्यामहं किन्तु तत् यथावत् स्वीकुर्यां, तस्मिन् स्निह्येयं, अहमपि च तस्यैवांऽशोऽस्मि - इत्येतदर्थं प्रमुदितो भवेयं, तया रीत्या मयाऽनुभवितव्यैवाऽऽसीत् ।
गोविन्द ! एते एतादृशाश्चाऽन्ये विचारा मम मस्तिष्के सन्ति' ।
ततः किञ्चिदानम्य सिद्धार्थेनैकः पाषाणखण्डो गृहीतो गोविन्दस्य च दर्शयित्वा कथितं - 'पश्यतु, अयमेकः पाषाणखण्डोऽस्ति, कियच्चित्कालानन्तरं ह्येष उर्वरामृत्तिकारूपेण परिणतो भविष्यति ततश्च वृक्षरूपेण पशुरूपेण मनुष्यरूपेणाऽपि वा परिणतिं प्राप्स्यति कदाचित् । पूर्वं तु मया पाषाणखण्डं दृष्ट्वा कदाचिदेवं कथितं स्यात् – एष तु केवलं कश्चन प्रस्तरखण्डः, अस्य न किमपि मूल्यं महत्त्वं वा, मायास्वरूपस्य जगतोऽश एषः, किन्तु परावर्तमाने जगति कदाचिदेष मनुष्यत्वं ब्रह्मत्वं चाऽपि प्राप्तुं समर्थः, अत एव चाऽस्य महत्त्वमस्तीति । किन्त्वधुनाऽहमेवं चिन्तयामि यदेष पाषाणखण्ड: पाषाणस्त्वस्त्येव, एष पशुर्देवो बुद्धश्चाऽप्यस्ति । अहं तमेतदर्थं नैव पूजयामि प्रीणामि वा यदेष पुरा कश्चनाऽऽसीत् भविष्यति चाऽन्यविधः कश्चन भविष्यति, किन्तु स पूर्वमेव सर्वरूपोऽस्त्येव सर्वकालं चाऽपि सर्वरूपोऽस्ति । अहमेनं प्रीणामि यतः अयं प्रस्तरोऽस्ति, अद्याऽधुना च स मे प्रस्तरयाऽध्यक्षीभवन्नस्ति । तस्य प्रत्येकं रेखाः, सूक्ष्माण्यङ्कनानि, लघूनि छिद्राणि, पीत-धूसरादिवर्णाः, काठिन्यं, तदभिघातशब्दः, तस्य शुष्कत्वं क्लिन्नत्वं
१०७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154