Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
एव चिन्तयन् भवति, स ध्येयनिष्ठो भवति, स ध्येयेनैवाऽऽविष्टो भवति । अन्वेषणं नाम - ध्येयसहितेन भवितव्यं, किन्तु प्राप्तिर्नाम मुक्तिः, सर्वग्रहणशीलता, ध्येयविहीनता वा । भोः सत्पुरुष ! यद्यपि भवान् सत्यान्वेषकोऽस्ति, स्वध्येयार्थं नितरां प्रयत्नशीलोऽप्यस्ति, किन्तु तत एव भवतो दृष्टेः समक्षमेव यानि वस्तूनि सन्ति तान्यपि भवान् द्रष्टुं न क्षमः ।
'अहमितोऽपि भवतः कथनस्य भावार्थं नैवाऽवगच्छामि ननु ! किं वाऽभिप्रैति भवान् ?' - गोविन्दोऽपृच्छत् ।
'भो मान्य ! एकदा भवान्, बहु वर्षेभ्यः पूर्वं, नद्या अस्यास्तटे आगतः, जनमेकं चाऽत्र शयानं दृष्टवान् । भवान् तद्रक्षणार्थं तत्समीप एवोपविष्टः किन्तु तमभिज्ञातुं नैव प्रभुर्जातो भो गोविन्द !' ।
आश्चर्यचकितो मन्त्रमुग्धश्च जातः स भिक्षुर्नाविकं निरीक्षितवान् । 'भवान् सिद्धार्थोऽस्ति खलु ?' - स कातरतया पृष्टवान् । 'अहं भवन्तमिदानीमपि नैव प्रत्यभिज्ञातवान् । भवतः पुनदर्शनं जातमित्यतोऽत्यन्तं प्रसन्नोऽस्मि भोः ! सिद्धार्थ ! अतीव हृष्टोऽस्मि । भवान् बहु परावर्तनं प्राप्तोऽस्ति मित्र ! किमिदानीं भवान् नाविकः संवृत्तोऽस्ति वा ?'
सिद्धार्थः सस्नेहं हसितवान्, 'आम् अहं नौचालको जातोऽस्मि । बहुभिर्जनैर्बहुशः परावर्तनं प्राप्तव्यं भवति, नैकविधानि च वस्त्राणि परिधातव्यानि भवन्ति । अहमपि तेषामन्यतम एव प्रियसखे ! । भवतोऽत्र स्वागतमस्ति गोविन्द !, अहं भवन्तं मे कुटीरे रात्रियापनार्थमामन्त्रयामि' ।
गोविन्दस्तस्यां रात्रौ कुटीर एव न्युषितः, वासुदेवस्य चैव शय्यायां शयितवान् । स बाल्यकालीनाय स्वमिंत्राय बहून् प्रश्नानपृच्छत्, सिद्धार्थश्च स्वजीवनविषयकान् बहूनंशान् तस्याऽकथयत् ।
प्रातर्यदा गोविन्दस्य गमनकालः सन्निहितस्तदा किञ्चित् स्खलद्वाक् सन् स सिद्धार्थमुक्तवान् - 'मित्र ! मम गमनात् पूर्वमहमितोऽप्येकं प्रश्न प्रष्टुमिच्छामि तावत् । भवान् कं सिद्धान्तं कां वा श्रद्धां किं वा ज्ञानमवलम्बते यद् भवते सम्यग् जीवितुमुचितं च कर्तुं सहायं करोति ?'
सिद्धार्थेनोक्तं – 'भवान् जानात्येव मित्र ! यत् तारुण्येऽपि यदाऽऽवां श्रमणीभूय वनेऽवसतां तदाऽपि अहं सिद्धान्तेषु गुरुषु वा नैव श्रद्दधामि स्म, प्रत्युत तान् पृष्ठतः करोमि स्म । अहमिदानीमपि तादृशीमेव विचारधारां दधामि, एवंसत्यपि ततः कालादेवाऽद्ययावत् मे बहवो गुरवः सञ्जाताः । एका सुन्दररूपवती गणिका चिराय मे गुरुरासीत्, एवं कश्चन धनिको वणिक् द्यूतक्रीडकश्चाऽपि मे गुरू अभवतम् । एकस्मिन्नवसरे तु पर्यटनं कुर्वाणो महात्मनो बुद्धस्य कश्चन शिष्योऽपि मे गुरुः सञ्जातः । अरण्यमध्ये गाढनिद्रावशगस्य मम रक्षणार्थं स स्वीयां यात्रामपि रुद्धवा मत्पाā उपविष्ट आसीत् । अहं तत्सकाशादपि किञ्चिच्छिक्षितवान्, एतदर्थं चाऽहं तस्य कृतज्ञोऽस्मि, भृशं कृतज्ञः । एवं स्थितेऽपि अधिकं ज्ञानं तु मया अस्या नद्याः सकाशात् मे पूर्वगामिनश्च वासुदेवस्य सकाशादेव प्राप्तमस्ति । स हि सर्वथा सामान्यो जन आसीत्, विचारकस्तु नाऽऽसीदेव, तथाऽपि गौतमबुद्धवत् स जीवनस्य सारभूतं तत्त्वं
१०५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154