Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
८. गोविन्दः
एकदा गोविन्दः, प्रसिद्धया गणिकया कमलया बौद्धभिक्षुभ्यो विहारार्थं समर्पिते क्रीडोद्याने कैश्चिदन्यैर्भिक्षुभिः सह कञ्चित् कालं विश्रान्त्यर्थमुषितवान् । तत्र च स वृद्धनाविकविषयिकी वार्ता श्रुतवान्, यः केवलमेकदिवसीयप्रवासान्तरे नदीतटे वसति स्म, जनेषु च सत्पुरुषतया प्रथित आसीत् । यदा गोविन्दस्ततः प्रस्थितस्तदा स नदीं गच्छता मार्गेणैव प्रस्थितः । यतो यद्यपि स स्वीयं समग्रं जीवनं भिक्षुसङ्घस्य नियमाननुसृत्यैव यापितवान् आसीत्, स्वस्य वयो नियममर्यादां विनीतत्वं चाऽऽश्रित्य युवभिक्षूणामादरपात्रमप्यासीत्, तथाऽपि तस्य हृदयमितोऽपि चाञ्चल्यं बिभर्ति स्म, सत्यान्वेषणेच्छा चाऽतृप्ताऽऽसीत् ।
नदीं प्राप्य स वृद्धनाविकाय नदीपारं प्रापयितुं प्रार्थयत । यदा तौ नदीपारं प्राप्य नौकातोऽवतीर्णौ तदा स वृद्धं तं कथितवान् – 'भवान् साधून् यात्रिणश्च प्रति भृशं सद्भावं दर्शयति खलु ! भवान् आस्माकीनान् बहून् साधून् नदी तारितवानसि । मन्ये, अहमिव भवानपि सन्मार्गगवेषक एवाऽस्ति किल?'
सिद्धार्थस्य वृद्धयोनयनयोः स्मितज्योत्स्ना दृश्यते स्म । सोऽवदत् - 'किं भवान् स्वं मार्गगवेषकत्वेन गणयति खलु ? मान्यो भवान्, यो वर्षाणि यावद् भिक्षुत्वं प्रपन्नः सोऽपि एवं वदति खलु ?'
गोविन्देनोक्तं- 'यद्यप्यहं वृद्ध एव, तथाऽपि मयाऽन्वेषणं नैव त्यक्तं, कदाऽप्यहं तन्नैव त्यक्ष्याम्यपि। एषैव मम नियतिरस्ति । किन्तु मन्ये यद् भवान् किञ्चिदुपलब्धवान् अस्ति इति । मित्र ! किं भवान् तद्विषये किञ्चिद् कथयति वा माम् ?'
सिद्धार्थनोक्तं - 'भवते मूल्यवद् भवेदित्येवं किं वाऽहं वदानि ? केवलं, भवान् प्रायः सत्यान्वेषणार्थं भृशं प्रयतते, तत्परिणामतश्च भवान् तन्न लब्धुं शक्तः स्यात् - इति' ।
'एतत् कथं वा स्यात् ?'
'यदा कश्चनाऽन्वेषणे रतो भवति तदाऽनायासमेव स यदन्वेषणे लग्नस्तदेव स पश्यति ततश्च सोऽन्यत् किञ्चिदपि प्राप्तुं नैव शक्नुयात्, किञ्चिदप्यङ्गीकर्तुं नैव सिद्धो भवेत्, यतः स केवलं तस्मिन् विषय
१०४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154