Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नैवाऽभाषत, परन्तु तस्य प्रशान्तवदनाद् वात्सल्यस्य प्रसन्नतायाश्च प्रभा प्रसरति स्म, सद्भावस्य प्रज्ञायाश्च छाया विलसति स्म । स सिद्धार्थहस्तं स्वहस्तेन गृहीत्वा तं नदीतीरेऽनयत् । ततस्तस्य पुरत उपविश्य नदीं प्रति दृष्ट्वाऽस्मयत् । स्नेहेनाऽकथयच्च - 'भवता नद्याः हास: श्रुतः, किन्तु ततोऽप्यधिकं बहु श्रोतव्यमस्ति । आवां शृणुयाव तावत्' । सर्वमपि शुभमशुभं च - एतेषां सर्वेषामपि सम्मीलनं नामैव जगदासीदिदं खलु । एतेषां सर्वेषामपि मीलनमेवाऽऽसीद् घटनाप्रवाहो नाम, जीवनसङ्गीतं नाम !
I
यदा सिद्धार्थ ऐकाग्र्येण नदीम श्रौषीत्, सहस्रशः शब्दानां गानमश्रौषीत्, यदा च स शोकमयं हास्यमयं वा शब्दं नैव श्रुतवान्, यदा स स्वं केनचित् विशेषेण ध्वनिना नैवाऽबध्नात्, नाऽपि च तं ध्वनिमात्मसात् कृतवान्, किन्तु सर्वानपि श्रुतवान्, यदा च स सर्वमपि सामग्र्येणाऽद्वैतेन च श्रुतवान्, तदा सहस्रशो ध्वनीनां महागानं केवलमेकशब्दात्मकमेव जातम् - ओम् - पूर्णता इति ।
'किं भवान् श्रुतवान् ?' पुनरपि वासुदेवो दृष्टिक्षेपेण पृष्टवान् । तस्य स्मितमुज्ज्वलमासीत्, यथा ओम् - नद्याः सर्वेष्वपि ध्वनिषु सर्वतः प्रसृतस्तथा तस्य स्मितस्य कान्तिरपि तस्य मुखस्य सर्वास्वपि वलिषु सर्वतः प्रसृता । यथा स स्वमित्रमुखमवलोकितवांस्तथा तस्य स्मितं प्रोज्ज्वलं जातम् । ततश्च सिद्धार्थस्य मुखेऽपि तदेव स्मितं प्रकटितम् । तस्य व्रणमुपशान्तं जायमानमासीत्, तस्य पीडाऽपस्त्रियमाणाऽऽसीत्, तस्याऽऽत्मा चैक्ये विलीयमान आसीत् ।
ततः क्षणादेव सिद्धार्थो नियतिं विरुध्य युद्धकरणात् निवृत्तो जातः । तस्य वदनोपरि; इच्छानां सङ्घर्षाद् यो निवृत्तोऽस्ति, यो मुक्ति प्राप्तोऽस्ति, यो घटनाप्रवाहेण सह जीवनप्रवाहेण च सह संवादितां भजति, यस्य चित्तं सहानुभूत्या करुणया च पूर्णमस्ति यः प्रवाहे एव समर्पितोऽस्ति सर्वेषामपि चैक्येन संस्थितोऽस्ति, तस्य वदने या ज्ञानानन्दस्य प्रभा विलसेत् सा, प्रभा विलसमानाऽऽसीत् ।
वासुदेवो नद्यास्तटादुत्थितः । यदा स सिद्धार्थस्य नेत्रयोर्निरीक्षितवान् तत्र च ज्ञानानन्दं प्रकाशमानं विलोकितवान्, स स्वीयेन सहृदय - सौम्यव्यवहारेण मृदुतया तस्य भुजं स्पृष्ट्वाऽकथयत् – 'मित्र ! अस्यैव क्षणस्य चिरप्रतीक्षा मया कृताऽऽसीत्, अधुना स क्षण उपस्थितोऽस्ति । इदानीमहं गमिष्यामि । अहं वासुदेवो नांविकतया चिरायाऽभवम् । अधुनैतत् समाप्तं जातमस्ति । स्वस्ति कुटीराय, स्वस्ति नद्यै, स्वस्ति च सिद्धार्थाय ।
सिद्धार्थोऽपि गच्छतस्तस्याऽग्रे सविनयं प्राणमत् कथितवांश्च मृदुतया भवान् वनं गच्छति किल ?'
'आम् अहं वनं गच्छामि, अहं समग्रस्याऽपि वस्तुजातस्यैक्यं प्रति गच्छन्नस्मि' – प्रोज्ज्वलवदनो वासुदेवोऽवदत् ।
एवं च स गतवान् । सिद्धार्थस्तं गच्छन्तं समवलोकितवान्, स गच्छन्तं तं महताऽऽनन्देन गौरवेण चाऽवलोकितवान् । तस्य प्रशान्तान् पादन्यासान्, देदीप्यमानं वदनं, प्रकाशमयं च सर्वमपि व्यक्तित्वं सोऽवलोकयन्नतिष्ठत् ।
Jain Education International
O
१०३
For Personal & Private Use Only
-
'मया ज्ञातमासीदेतत्, किं
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154