Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 110
________________ विषयेषु एतेषां चिन्तकानां तुल्या एवाऽऽसन्, कदाचिच्चैतेभ्यः श्रेष्ठा अपि; यथा हि पशवः कदाचित् आवश्यकतायां सत्यां तेषां दृढास्वविचलितासु क्रियासु मनुष्येभ्योऽपि श्रेष्ठाः दृश्यन्ते, तथा ! । सिद्धार्थहृदये – काऽस्ति वा शुद्धा प्रज्ञा ? किमस्ति च मम सुदीर्घान्वेषणस्य ध्येयम् ? - इत्यधिकृत्य ज्ञानं शनैः शनैः प्रवर्धमानं क्रमशः परिपक्वं जातम् । तेनाऽनुभूतं यदेतद्धि केवलं सर्वेष्वपि जीवेषु प्रतिक्षणमात्मौपम्यस्याऽनुभवनं श्वसनं साक्षात्करणं तदर्थं च स्वस्य प्रगुणीकरणं सामर्थ्यप्रापणं चाऽस्ति । एतच्चिन्तनं तस्मिन् शनैः शनैः परिणतं जातम् । एतस्य च प्रतिबिम्बं वृद्धस्य वासुदेवस्य बालतुल्ये वदने संवादितारूपेण, जगतः शाश्वततया सम्पूर्णत्वरूपेण ऐक्यरूपेण च प्रतिफलितम् । किन्तु, एतावताऽपि पुत्रगमनस्य दुःखमितोऽपि मनस्तुदति स्म । सिद्धार्थः स्वपुत्रविषये स्निग्धतयाऽऽत्यन्तिकतया च चिन्तयति स्म, तदर्थं स्वहृदये प्रेम्णो वात्सल्यस्य च भावं पोषयति स्म, तद्गमनस्य पीडया व्यथितो भवति स्म, आसक्त इव सर्वामपि मूर्खतां समाचरति स्म च । एवं च दुःखाग्नेालां निर्वापयितुमवकाशं नैव कल्पयति स्म । ___एकदा, दुःखशल्येऽत्यन्तं व्यथयति सति स पुत्रमिलनस्याऽऽत्यन्तिकेच्छया व्याप्तचित्तः सन् 'नगरं गत्वा तदन्वेषणं करोम्येवे'ति विचिन्त्य नावा नदी तीर्णवान् । ततो यावद् नौकातो बहिः पादं स्थापयति स्म तावत् तस्य दृष्टिर्नदीप्रवाहे पतिता । नदी मृदुतया मन्दमन्दं प्रवहमानाऽऽसीत् । ग्रीष्मकालस्य सन्निहितत्वात् यद्यपि जलमनल्पं नाऽऽसीत् तथाऽपि तस्याः कलकलध्वनिस्तु स्पष्टतया श्रूयते स्म । सिद्धार्थस्य प्रतिभातं यत् साऽद्य किञ्चित् विलक्षणं भाषमाणाऽस्तीति । तेनैकाग्रीभूय यावन्निरीक्षितं तावत्, सा तं प्रति हसति, व्यक्तमेव हसतीति लक्षितम् । वृद्धनाविकं दृष्ट्वा सा परिहासं कुर्वत्यासीत् । एतदभिलक्ष्य सिद्धार्थस्तत्रैव स्थिरीभूय स्पष्टतया श्रवणार्थं किञ्चिन्नतो जातः । एवंकरणेन च तस्य मुखं शान्ततया प्रवहमाने जले प्रतिबिम्बितम् । तत्र च प्रतिबिम्बे तादृशं किञ्चिदासीत् यत् तस्य विस्मृतं किञ्चिद् वस्त्वस्मारयत् । यदा च स सम्यगालोचनं कृतवांस्तदा स तत् सम्यक्तया स्मृतवान् । तस्य वदनं कस्यचनाऽन्यजनस्य वदनमनुहरति स्म यं स एकदा सम्यग् ज्ञातवान्, तद्विषये च प्रेम भयं चाऽप्यनुभूतवानासीत् । स जन आसीत् तस्य ब्राह्मणः पिता । स स्मृतवान् यत् कथं स श्रामण्यग्रहणार्थमनुमति प्राप्तुं तं बलात्कारेण प्रेरितवानासीत्; हठाच्चाऽनुज्ञां प्राप्य कथङ्कारं स तद्गृहान्निर्गत आसीत् पुनश्च नैव कदाऽपि तत्र प्रतिनिवृत्त आसीत् । किं तस्य पिताऽपि तदेव दुःखं नाऽनुभूतवान् स्यात् यदिदानी स स्वपुत्रस्य कृतेऽनुभवन्नासीत् ? किं तस्य पिता बहोः कालात् पूर्वमेव स्वपुत्रमदृष्ट्वैवैकाकितया मृतो नाऽऽसीत् खलु ? स्वपितुरिव किं तस्याऽपि एषैव नियतिर्नाऽऽसीत् किल ? किमेतत् पुनरावर्तनं, नियत्या वर्तुले घटमान एष घटनाक्रमः किमेकं प्रहसनं, विचित्रं मौर्ध्वपूर्णं च कार्यं वा नाऽऽसीत् खलु ! । नदी हसन्ती आसीत् । आम्, एतदेव तदासीत् । सर्वमपि यद् आऽन्तमसहित्वैव समापितं स्यात् तदवश्यं पुनरावर्तितं भवति स्म, तत्र च समानानि एव दुःखानि अनुभवितव्यानि भवन्ति । पितृविषयकं पुत्रविषयकं च चिन्तनं कुर्वाणः, नद्योपहस्यमानः, स्वेन सहैव विप्रतिपद्यमानः, १०१ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154