Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
७. ॐ
सा शल्यवेदना चिराय सिद्धार्थहदि पर्यस्पन्दत । सिद्धार्थो हि बहून् सापत्यान् यात्रिकान् नदीपारं प्रापयत्, किन्तु प्रत्येकं वारं तस्य तेषां यात्रिकानामीW भवति स्म । स चिन्तयति स्म यद् – 'एतावन्तो जनाः पुत्रसुखेन सुखिताः सन्ति, केवलमहमेव किमर्थं तत्सुखाद् रहितोऽस्मि ?. किञ्च, दुरात्मानश्चौराः लुण्टाकाश्चाऽपि सन्तानानि धारयन्ति, प्रेम्णा पालयन्ति, तेषां स्नेहमपि च प्राप्नुवन्ति, नवरं मया विना' । एवं चाऽत्यन्तं बालिशतयाऽतार्किकतया वितर्कान् कुर्वन् सोऽधुना प्राकृतजनवदाचरति स्म ।
स इदानीं जनैः सहाऽन्ययैव विधया व्यवहरति स्म । नाऽत्यन्तं चातुर्येण, नाऽपि गण, परन्तु सर्वथोष्मपूर्णेन कुतूहलपूर्णेन सहानुभूतिपूर्णेन च व्यवहारेण व्यवहरति स्म । इदानीं, यदा स सामान्यान् वणिक्-सैनिक-महिलादीन् यात्रिकान् नदीपारं नयति स्म तदा ते तस्य पूर्ववत् परे अपरिचिता वा नैव भासन्ते । यद्यपि स तेषां विचारान् अभिप्रायान् वा नैवाऽवबुध्यन्ते स्म तथाऽपि तैः सह जीवनस्योद्देशान् मनोरथांश्चाऽधिकृत्य संवादं करोति स्म । यद्यपि स स्वात्मसंयमस्योच्चावस्थां समासादितवानासीत् स्वीयमन्तिमं व्रणमपि च सुतरां सहित्वा पक्वो जात आसीत्, तथाऽपि स इदानीमेतान् सामान्यजनानपि स्वजनत्वेनैव पश्यति स्म । तेषां मिथ्याभिमानस्तृष्णास्तुच्छतादयश्चेदानीं तस्याऽसङ्गता न प्रतिभान्ति स्म, प्रत्युत ते जनास्तस्य सद्भावयोग्याः प्रेम्ण आदरस्याऽश्चि प्रतिभाताः । तेषु जनेषु कस्यचन स्वापत्यं प्रति मोहान्ध्यं, कस्यचित् तु स्वस्यैकमानं पुत्रमधिकृत्य मौर्व्यपूर्णो गर्वः, कस्याश्चन च यौवनोद्धताया युवत्या अलङ्काराद्यर्थं युवजनाकर्षणार्थं च क्रियमाणा औत्सुक्यपूर्णाः प्रयत्ना आसन् । एते सर्वेऽपि क्षुल्लकाः सामान्याः मूर्खतापूर्णाश्चाऽप्यत्यन्तं बलवन्त उत्कटाः सचेतनाश्चाऽऽवेगा मनोरथाश्चेदानीं सिद्धार्थस्य तुच्छतया न प्रतिभान्ति स्म । एतेषामावेगानां मनोरथानां च पुरणार्थं जना जीवन्ति, अतिमहतः प्रयत्नान कुर्वन्ति, प्रवसन्ति, युध्यन्ते, अतिमात्रेण सहन्ते तितिक्षन्ते चेति निरीक्षितवान् स एतदर्थं तान् प्रीणाति स्म, यतः स तेषां मनोरथेष्वावश्यकतासु च जीवनं, चैतन्यमविनश्वरं च ब्रह्म पश्यति स्म । सोऽचिन्तयद् यदेते जना हि तेषामन्धानुरागवत्त्वाद् अन्धपराक्रमाद् आग्रहवत्त्वाच्चाऽपि प्रेमपात्राणि प्रशंसास्पदानि च सन्ति । कस्यचित् तत्त्वविदश्चिन्तकस्य वा सकाशे यत् स्यात् तत् सर्वमपि केवलमेकं लघुमपवादं विहायैतेषां पार्वेऽप्यासीदेव । तच्चाऽऽसीत् सर्वेषामपि जीवानामैक्यबोधः । किन्तु, बहुशः सिद्धार्थोऽचिन्तयद् यत् - 'किमेतादृशो बोधो विचारो वा बहु मूल्यमर्हति खलु ? किमेतच्चिन्तनं चिन्तकानां बालिशाऽऽत्मप्रशंसा नाऽऽसीत् खलु, ये किल केवलं विचारयन्तो बालका एव सन्ति ? सामान्या जना हि सर्वेष्वप्यन्येषु
१००
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154