Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
यदा स नगरस्य राजमार्ग प्राप्तस्तदा तदुपान्ते स्थितं सुन्दरं क्रीडोद्यानं - यदेकदा कमलायाः आसीद् - दृष्ट्वा तस्य द्वार्येवाऽतिष्ठत् स्थिरतया । अत्रैव स ऐदम्प्राथम्येन कमलां शिबिकयाऽत्राऽऽगच्छन्ती दृष्टवान् आसीत् । स समग्रोऽप्यतीतस्तस्य मानसचक्षुषोः पुरतः उपस्थितः इव । पुनरपि स स्वं दीर्घकूर्चयुतजीर्णवस्त्रधर-धूलिधूसरित-तरुणश्रमणत्वेन प्रत्यक्षीकृतवान् । स चिराय तत्रैवाऽवस्थायोद्यानं निरीक्षितवान्, तत्र च बहवो बौद्धभिक्षवस्तेन सुन्दराणां वृक्षाणामधस्तात् सञ्चरन्तो दृष्टाः ।
स तत्रैव तिष्ठन् स्वीयमतीतं जीवनं चित्रपटेषु चित्रितां कथामिव विलोकितवान् । तत्रोद्याने स्थितान् भिक्षून् दृष्ट्वा स युवानं सिद्धार्थं स्मृतवान् कमलया सहितं च तं रमणीयवृक्षराजीमध्ये पर्यटन्तं विलोकितवान् । स स्पष्टतया स्वं तत्रोद्याने कमलया सत्कृतं सर्वप्रथमतया च तस्याश्चुम्बनं स्वीकुर्वन्तं दृष्टवान् । स तदपि स्मृतवान् यथा कथं तेन स्वीयाः पुरातनाः श्रामण्यदिनाः सदएँ सावज्ञं च समीक्षिता आसन्, कथं च तेन सगर्वमुत्सुकतया च सांसारिकं जीवनं प्रारब्धमासीत् । स कामस्वामिनं, सेवकान्, भोजनसमारम्भान्, द्यूतक्रीडकान्, सङ्गीतकारांश्च मानसे प्रत्यक्षीकृतवान् । कमलायाः गायकपक्षिणं पञ्जरस्थितं चाऽपि स विलोकितवान् । एवं च सर्वमपि जीवनं स पुनरपि जीवितवान्, संसारं श्वसितवान्, वार्धक्यं स्पृष्टवान्, श्रान्तो जातः, निर्वेदमनुभूतवान्, मरणमभिलषितवांश्च; ततश्च पुनरपि पवित्रमोङ्कारं श्रुतवान् ।
चिरायोद्यानद्वार एवाऽवस्थानानन्तरं सिद्धार्थः लक्षितवान् यद् योऽभिलाषस्तमिहाऽऽगन्तुं प्रेरितवान् स सर्वथा मौर्यपूर्ण आसीत्, निजपुत्रं स कदाऽपि बोधयितुं समर्थो नाऽऽसीत्, निजजीवनपद्धतिं च बलात् तस्मिन्नारोपयितुमुचितं नाऽऽसीत् । स पलायितं बालकं प्रति व्रणं प्रतीव गाढं प्रेमाऽनुभूतवान्, समकालमेव चिन्तितवांश्चाऽपि यदयं व्रणो नेदानीं सपूयः कर्तव्यः किन्तु तस्य विरोपणं कर्तव्यमासीत् ।
किन्तु तस्मिन् समये स व्रणो नैव विरूढः, अतः स दुःखितः एव तत्र स्थितः । यदर्थं स्वपुत्रमनुसृत्य स इहाऽऽगत तत्प्राप्तेः स्थाने तेन केवलं शून्यता प्राप्ताऽऽसीत् । सदुःखं स तत्रैवोपविष्टः । स्वहदये किञ्चन म्रियमाणं सोऽनुभूतवान् । स तत्रेदानीं सुखं स्वध्येयपूर्ति वा नैव दृष्टवान् । अतः सर्वथा विषण्णः स प्रतीक्षारतः उपविष्टः । नद्याः सकाशात् स बहु शिक्षितवानासीत् – प्रतीक्षां कर्तुं, धैर्यं धत्, श्रोतुं च । स तत्र धूलिमयेवम॑नि निष्ण्णः श्रोतुमारब्धः । स दुःखितया म्लानतया च स्पन्दमानं स्वहृदयं श्रुतवान् ततः प्रकटन्तं च कञ्चन ध्वनि श्रोतुं प्रतीक्षितवान् । स दीर्घकालं यावत् पादावाकुच्य श्रवणार्थं प्रयतितवान् किन्तु किमपि नैवोपलब्धवान्, ततश्च कमपि मार्गं न दृष्ट्वाऽन्ते स स्वं शून्यतायां निमज्जितवान् । यदा च स स्वीयं व्रणं तीक्ष्णतया व्यथयन्तमनुभूतवान् तदा स 'ओम्' - इति शब्दं जपितवान्, स्वहृदयं च ओङ्कारनादेन पूरितवान् । उद्यानस्था भिक्षवस्तं चिरात् तथा निषण्णं दृष्ट्वा तन्मस्तकं च धूल्याऽवगुण्ठितं विलोक्य करुणार्द्रा जाताः, तेषामेकतमश्च तन्निकषा समागत्य द्वे कदलीफले तत्पुरतो मुक्तवान् । किन्तु वृद्धजनः स ते नैव लक्षितवान् ।
एतावता तस्य स्कन्धोपरि कस्यचन हस्तस्य स्पर्शोऽभवत् । एतेन स जागृतोऽभवत् । स इमं मृदं सचिन्तं च स्पर्शमभिज्ञातवान् झटिति च स्वस्थोऽभवत् । तत उत्थाय स वासुदेवमभिवादितवान् यस्तस्य
९८
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154