Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 106
________________ द्वितीयदिने प्रभात एव सोऽदृश्यो जातः । तेन सह, यस्मिन् द्विवर्णे करण्डके तौ द्वौ नाविको भाटकतया प्राप्तं धनं रक्षतः स्म, स करण्डकोऽपि न दृश्यते स्म । बहिरागत्य दृष्टं तावन्नौरपि घट्टे नाऽऽसीत् । सिद्धार्थेन सम्यङ् निरीक्षिते ज्ञातं यन्नौस्तु परस्मिन् तटे स्थिताऽस्तीति । अर्थात् स बालकः पलायितः । 'मया तत्पृष्ठतो गन्तव्य'मिति पूर्वदिने बालकस्य कटुशब्दैर्बहुव्यथितेन सिद्धार्थेनोक्तम् । ‘स बालकः एकल एवाऽरण्यमध्ये कथं यास्यति ? तत्र तस्य कश्चिदपायोऽपि स्यात् खलु ! । अतो वासुदेव ! आवाभ्यां तस्य पृष्ठे गमनार्थमवश्यं तरण्ड एको निर्मातव्य एव' । 'अवश्यं निर्मातव्यस्तरण्डः' - वासुदेव उक्तवान् । 'परं स अपरतटे स्थितां नौकामानेतुं निर्मातव्यो न पुनर्बालकस्य पृष्ठतो गमनार्थम् । गच्छतु नाम सोऽधुना मित्र !, न सोऽस्ति शिशुरितोऽपि, स स्वयं स्वं सम्भालयितुं सुष्ठ जानात्येव । स नगरं प्रति गच्छन्नस्ति, तच्च सम्यगेवाऽस्ति । मा विस्मार्षीदेतद् यद् - भवान् यत्करणमुपेक्षितवान् तदेव स कुर्वन्नस्ति । स स्वीयं रक्षणं कुर्वन् निजमार्गे एव गच्छन्नस्ति । किन्तु सिद्धार्थ ! अहं पश्यामि यद् भवान् खिन्नोऽस्ति । यां पीडां दृष्ट्वा जनेन हसितव्यं तथा भवानपि स्वस्मिन् हसिष्यत्येव तयैव पीडया भवान् खिन्नोऽस्ति ननु !' । सिद्धार्थः किमप्युत्तरं न दत्तवान् । स कुठारं गृहीत्वा तरण्डनिर्माणार्थमपेक्षितं काष्ठं छेत्तुमारब्धस्ततश्च वासुदेवसाहाय्येन तृणनिर्मितरज्ज्वा वंशखण्डान् बद्ध्वा तरण्डं निर्मितवान् । ततो द्वावपि ऊर्ध्वप्रवाहे महता परिश्रमेणाऽपरं तीरं प्राप्तौ । _ 'किमर्थं भवान् कुठारमेनमानीतवान् ?' - आश्चर्येण सिद्धार्थः पृष्टवान् । वासुदेवेनोक्तं - 'आवयोर्नीकायाश्चालनदण्डः कदाचिद् विनष्टः स्याद्, अतः' । सिद्धार्थो ज्ञातवान् यद् वासुदेवश्चिन्तयन्नाऽऽसीत् कदाचित् तेन बालकेन नौदण्ड आवां पृष्ठतोऽनुगन्तुं रोधनाय कुत्रचित् प्रक्षिप्तो भञ्जितो वा स्यादिति । वस्तुतोऽप्येवमेव जातम् । नौदण्डस्तु नाऽऽसीदेव । वासुदेवस्तं नौकां दर्शयित्वा स्मितवान्, यथा तं कथयतीव- 'किं भवतः पुत्रः कथयितुमिच्छतीति भवान् न पश्यति खलु ? आवां तं नाऽनुगच्छेवेत्यपि तस्येच्छाऽस्तीत्यपि भवान् न पश्यति किल?' । किन्तु स शब्दैस्तत् नैव कथितवान् नूतनं च नौकादण्डं निर्मातुं प्रारब्धवान् । ततः सिद्धार्थः पुत्रान्वेषणाय गन्तुं तदनुज्ञां पृष्टवान् । वासुदेवोऽपि तं नैव न्यषेधत् । सिद्धार्थश्चिराय वने तमन्विष्टवान् । ततस्तेन चिन्तितं यदिदं सर्वथा निरर्थकमस्ति । प्रायः स नगरमेव प्राप्तवान् स्यात्, अथवा, यदि स वने स्यात् तथाऽपि यत्र कुत्राऽपि निलीनः स्यात् स्वानुगामिनो मत्तः स्वं गोपयितुम्' । पुनश्च विमर्श कुर्वता तेनोपलब्धं यत् स्वपुत्रविषयिकी चिन्ता तु तस्य सर्वथा नाऽऽसीत् । तथा, वने तस्य बालकस्य काऽपि हानिः कुतश्चिद् वा भयं वाऽपि नैव जातं स्यादित्यत्राऽऽपि स सप्रत्यय आसीत् । एवं सत्यपि सोऽविश्रान्तं नगरं प्रति चलितवान्, न किन्तु तं रक्षितुमपि तु दैवात् स पुनरपि प्रत्यक्षीभवेदितीच्छयैव केवलम् । प्रान्ते च नगरसीमानं प्राप्तवान् । ९७ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154