Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
सर्वथाऽसमर्थ आसीत्, तदैव च तस्यैतत् प्रतिभातं यत् स्वस्याऽन्येषां च सामान्यजनानां मध्येऽयमेव महान् विशेषोऽस्ति इति ।
किन्तु, इदानीं, यदारभ्य तस्य पुत्र इहोषितवान् तदारभ्य, सोऽपि दुःखं स्नेहं चाऽनुभवन् सामान्यजनानामेवाऽन्यतमत्वमभजत् । पुत्रासक्त्याऽन्धीभूय स मूर्खत्वं समाचरन्नासीत् । स्वजीवने अतिचिरेणाऽपीदानीं सोऽत्युत्कटमपूर्वं च मनोभावमनुभवन्नासीत् । यद्यप्यनेन भावेन सोऽतिदारुणं सन्तापमनुभूतवान् तथाऽपि स इदमप्यनुभूतवान् यत् तस्य सत्त्वमनेन किञ्चिदिवोच्छ्रितं, किञ्चिदिव नवीभूतं समृद्धतरं च जातमस्तीति ।
स जानाति स्मैव यदिदं प्रेमैषा चाऽन्धाऽऽसक्तिः स्वपुत्रविषयिकी हि मूलतया मानवीय संवेदनमस्ति, एतदेव च संसारोऽस्ति खलु ! सर्वथा संक्षुब्धं गभीरजलस्रोतः । परन्तु समकालमेव सोऽनुभूतवान् यदिदं सर्वथाऽसारं तु नास्त्येव, अस्याऽप्यावश्यकता त्वस्त्येव, तथैतदपि निजप्रकृतेरेवोद्भूतमस्ति । एतत् संवेदनं, एषा पीडा, एतानि मौणि चाऽपि ह्यनुभवितव्यान्येव खलु !।
एतावता च, तस्य पुत्रस्तस्य मूर्खताः समलोकयत्, तं प्रयतमानं नैव न्यवारयत्, प्रकृत्यैव च विनीतं तं नैवाऽगणयत् । पितरि तादृशं न किञ्चित् तेन दृष्टं येन स आकृष्टो भवेत् यस्माद् वा स भयमनुभवेत् । तस्य पितैष एकः सुजनः, एकः सदयः सज्जनः, एको धार्मिको मनुष्यः, पवित्रश्च जन आसीत् - किन्तु, एते गुणास्ते नाऽऽसन् ये तं बालकं समाकृषेयुर्जयेयुर्वा । एष पिता तं यदीदृशे शीर्णे कुटीरेऽवासयत् तदपि तस्मिन् निर्वेदमजनयत्, तथा यत् स तस्याऽविनयं स्मितेनोदतरत्, प्रत्येकमपमानं सौजन्येन, प्रत्येकं दुर्वृत्ति च प्रेम्णा प्रत्यभावयत् - तद् हि तस्मै बालाय 'वृद्धशृगालस्य गीतमं कपट' प्रतिभाति स्म । यदि सिद्धार्थस्तं बालकं निरभत्सिष्यताऽपीडयिष्यच्च तदा तत् तस्मै अधिकमरोचिष्यत ।
अन्ते च, तद्दिनमपि समागतं यदा सिद्धार्थपुत्रस्तत् कथितवान् यत् सर्वं तन्मानसे आसीत्, इदानीं स प्रकटं पितुर्विरोधं कृतवान् । तच्चैवं जातं – पित्रा स आदिष्टः काष्ठखण्डानानेतुम् । किन्तु स कुटीराद् बहिर्नैव गतवान् । स तत्रैव स्थित्वोद्धततया सकोपं च भूमिं पादतलेन प्रहृतवान्, मुष्टिं च बद्ध्वा द्वेषं तिरस्कारं च प्रदर्शितवान् । 'भवान् स्वयमेव काष्ठखण्डान् आनयतु' - स आवेशेनोक्तवान् । 'नाऽहं भवतः प्रेष्यो दासो वा । अहं जानामि यद् भवान् मां नैव ताडयति, भवतः साहसमेव नास्ति तदर्थम् !, एवं सत्यपि भवान् सततं दयालुतया मां लालयन् मयि हीनभावं जनयति । भवान् हि मामपि भवादृशं कर्तुमिच्छति - धर्मनिष्ठं, सज्जनं, धीरं च । किन्तु, केवलं भवन्तं पीडयितुमेवाऽहं कदाचित् यदि परं चौरो घातको वा भविष्यामि न पुनर्भवादृशः । अहं भवन्तं धिक्करोमि । भवान् नास्ति मे पिता यद्यपि भवान् शतशो मम मातुः प्रियतमोऽपि स्यात् !' ।
एवं च दुःख-सन्ताप-कोपाकुलः स क्रोधावेशपूर्णान् शब्दान् स्वपितुः पुरत उद्गीर्य बहिः कुत्रचित् पलायितः, ततश्च रात्रावेव पुनरागच्छत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154