Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
'भवान् मे मनोगतं सर्वमपि जानात्येव'
सिद्धार्थः सखेदमुक्तवान् । 'अहं बहुश एतदर्थे चिन्तितवान् अस्मि । किन्तु, य ईदृशः कठिनहृदयोऽस्ति स जगति कथं व्यवहरिष्यति ? किं स श्रेष्ठम्मन्यो न भविष्यति ? किं स भौतिकसुखे समृद्धावैश्वर्ये च भ्रष्टो नष्टश्च न भविष्यति ? किं स स्वपितृसमाचरितान् दोषान् न पुनरावर्तयिष्यते ? एवं च स किं संसारे निमग्नो न भविष्यति ?' 1
—
वासुदेवः पुनरपि स्मितवान् । स मृदुतया सिद्धार्थस्य स्कन्धे हस्तं स्थापयित्वोक्तवान् – 'एतत् सर्वं नद्यै पृच्छतु मित्र ! तदुक्तं शृणोतु ततश्च हसतु ! किं सत्यमेव भवान् चिन्तयति यद् भवता समाचरितान् दोषान् भवत्पुत्रो नैव समाचरिष्यति ? किं ततो भवांस्तं संसाराद् रक्षितुं प्रभविष्यति ? कथम् ? किमनुशासनेन ? प्रार्थनाभि: ? उपदेशैर्वा ? प्रियमित्र ! भवतैवाऽत्र कदाचित् मे कथितां ब्राह्मणपुत्रस्य सिद्धार्थस्य बोधप्रदां कथां किं भवान् विस्मृतवान् किल ? श्रमणमपि सिद्धार्थं संसारात् पापाल्लोभान्मौर्थ्याच्च को वा रक्षितवान् ? किं तस्य पितुर्धर्मनिष्ठा ? किं तस्य गुरोरुपदेशा: ? तस्य स्वीयो बोध: ? किं वा तस्य सत्यान्वेषणं तं समरक्षत् ? कः पिता कतमो वा गुरुस्तं स्वच्छन्दतया जीवनं जीवन्तं जीवनं दोषैर्मलिनीकुर्वन्तं, स्वं पापभरेण पूरयन्तं विषस्य कटु पानं पिबन्तं, प्रान्ते च स्वयमेव स्वीयं पन्थानमन्वेषयन्तं च न्यवारयत् ? किं भवांश्चिन्तयति यत् कश्चनैतस्मात् क्रमाद्रक्षितः स्यात् ? यदि परं भवतो लघुपुत्रः, यतो भवांस्तं दुःखेभ्यः क्लेशेभ्यो मोहाच्च रक्षितुमिच्छतीत्यत: ? नैव सिद्धार्थ ! नैव, यदि भवान् स्वपुत्रस्य कृते दशवारमपि मृत्वा जन्म धारयिष्यति तथाऽपि तस्य नियतिमणुमात्रमपि परावर्तयितुं नैव शक्ष्यति !' ।
वासुदेवो ह्येतावन्मात्रं न कदाऽप्युक्तवानासीत् । सिद्धार्थस्तस्योपकारं मत्वा दुःखितहृदयेन कुटीरं प्रविशत्, किन्तु निद्रातुं शक्तो नाऽभवत् । स्वयमचिन्तितमज्ञातं च न किमपि वासुदेवेन कथितमासीत् । किन्तु ज्ञानादपि पुत्रप्रेम, पुत्रासक्तिः, पुत्रवियोगभयं च बलवत्तरमासीत् । न हि कदाचित् स कस्यचित्कृते स्वहृदयमेवं हारितवानासीत्, न हि कञ्चनाऽपि स एवंरीत्याऽन्धीभूय, दुःखीभूय, हताशीभूयाऽथाऽपि च सुखितम्मन्यः प्रीतवानासीत् ।
स स्वमित्रस्योपदेशं स्वीकर्तुं नैवाऽशक्नोत्, स्वपुत्रं च परिहर्तुं शक्तो नैवाऽऽसीत् । स स्वमाज्ञापयितुं स्वपुत्रमन्वज्ञापयदिव, स्वं प्रत्यविनीतं च भवितुमप्यन्वमन्यतेव । स तूष्णींभूय धैर्येण प्रतीक्षामकरोत् प्रत्यहं च मैत्र्या धैर्यस्य च मूकं युद्धं प्रारभत । वासुदेवोऽपि मौनतया प्रतीक्षामकरोत्, सस्नेहं सद्भावेन क्षमाशीलतया च । द्वे अपि मित्रे धैर्यस्य तु स्वामिनावास्ताम् ।
एकदा, यदा बालकस्य मुखं तं कमलामस्मारयत् तदा, सहसैव सिद्धार्थो बहुकालपूर्वं कमला तं यत्कथितवत्यासीत् तदस्मरत् । 'भवान् न कस्मिश्चिदपि स्त्रियेत् कदाऽपि' इति सा तं कथितवती, सोऽपि च तत् स्वीकृतवानाऽऽसीत् । स स्वं तारया सहाऽन्यांश्च जनान् वृक्षात् पतद्भिः पर्णैः सह तुलितवान् आसीत्, । एवं सत्यपि स तस्याः शब्देषु स्थितमुपालम्भमनुभूतवानासीत् । एतत् तु सत्यमेवाऽऽसीत् यत् सः, स्वस्याऽपि विस्मरणं येन भवेत् तादृशं प्रेम, कस्याऽपि विषयेऽनुभूतवान् नाऽऽसीत् । एतत् कर्तुं स
९५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154