Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चाऽत्राऽऽगतः इति । अस्मिंश्च स्मरणे तस्य भूयान् समयो व्यतीतः ।
तस्याऽतीतं जीवनमिदानीमत्यन्तं दूरवर्तीव घनावरणाच्छादितमिव सर्वथा महत्त्वशून्यमिव चाऽभासत । एतावदेव तस्य ज्ञातं यत् तत् पूर्वतनं जीवनं (यस्मिन् क्षणे स जागृतोऽभवत् तस्मिन् क्षणे तस्य पूर्वतनं जीवनं वर्तमानस्वत्वस्य बहुदूरवति जन्म इवाऽभासत) समाप्तमिदानीं, यत् केवलं निर्वेदपूर्णं निकृष्टतमं चाऽऽसीत्, यच्च स विनाशयितुमेवेष्टवान्, किन्तु तदर्थमिह नद्यास्तीरे नालिकेरवृक्षस्याऽधस्तात् समागतः सोऽकस्मात् पवित्रं मन्त्राक्षरम् 'ओम्' इति उच्चारयन्नेव सर्वमपि विस्मृत्य गाढनिद्रायां सुप्तवान् । जागृतश्च सन् पुनर्जन्म प्राप्त इव जगदिदं नवागन्तुक इव वीक्षितवान् । ___पुनरपि स मृदुतया ओम् - इत्युच्चारितवान् । तस्य प्रतिभातं यत् समग्रेऽपि निद्राकाले ओम्जपस्तन्मनसि वरीवर्तित एव, ओङ्कारस्यैव विचारः, नाम-रूपरहिते दिव्ये ओङ्कार एव निमज्जनं व्यापनं चाऽपि ।
कीदृशमद्भुतं स्वपनं तद् आसीत् । कदाऽपीदृशी निद्रा तेन कदाऽपि नाऽनुभूता यया एतावानाह्लाद एतावन्नवजीवनं एतावच्चाऽऽप्यायनं प्राप्तं स्यात् । किं स वस्तुतो नद्यां निमज्ज्य मृत्युं प्राप्तः, पुनश्च नवावतारेणाऽत्रोपस्थित आसीद् वा ? नैव, स स्वं प्रत्यभिज्ञातवान्, स स्वीयं हस्त-पादं प्रत्यभिज्ञातवान्, स तत्स्थलमपि प्रत्यभिज्ञातवान् यत्र स शयित आसीत् तथा स स्वहृदयस्थं सिद्धार्थं - स्वैरिणं विलक्षणं सिद्धार्थं चाऽपि प्रत्यभिज्ञातवान् । किन्त्वयं - प्रस्तुतः सिद्धार्थस्तु किञ्चिदिव परावृत्तः पुनर्नवीभूतश्चाऽऽसीत् । नूनं सोऽद्भुततया शयितवान्, ततश्च विशेषतो जागृतः प्रसन्नो विस्मयमुग्धश्चाऽऽसीत् ।
___ यदा सिद्धार्थ उत्थितस्तदैव तस्य दृष्टिः पुरत उपविष्टे काषायवस्त्रधारिणि मुण्डितशिरसि साधौ पतिता, यः किल विचारमग्न आसीत् । केश-श्म,वादिरहितं तं वीक्ष्याऽचिरमेव स प्रत्यभिज्ञातवान् यदयं मे बाल्यकालीनः सुहृद् गोविन्दोऽस्ति यो हि महात्मनो बुद्धस्य सङ्के भिक्षुत्वं स्वीकृतवानासीत् । यद्यपि सोऽपि वयस्को जात एव तथाऽपि तस्य वदने पुरा विलसन्ति लक्षणानि साम्प्रतमपि विलोक्यन्ते स्मैव, यथा - औत्सुक्यं, निष्ठा, जिज्ञासा, व्यग्रता च ।
किन्तु यदा गोविन्दस्तस्य दृष्टिपातमनुभूय स्वनेत्रे उन्मीलितवान् तं च दृष्टवान् तदा सिद्धार्थेनाऽवगतं यद् गोविन्दस्तं नैव प्रत्यभिज्ञातवान् - इति । गोविन्दस्तु तं जागृतं दृष्ट्वा प्रसन्नोऽभवत् । यद्यपि स तं नैवाऽभिज्ञातवान् तथाऽपि एतत्तु स्पष्टमासीत् यत् स तस्य जागरणमेव प्रतीक्षमाणश्चिरादुपविष्ट आसीत् ।
'अहं निद्रायमाण आसम् । किन्तु भवानत्र कथमागतः ?' – सिद्धार्थोऽप्राक्षीत् ।
गोविन्द उत्तरितवान् – 'भवान् निद्रालीन आसीत् । किन्त्वरण्येऽस्मिन् श्वापदसर्पाद्याकुले एवं निद्रातुं नैवोचितम् । अहं हि महात्मनः शाक्यमुने!तमबुद्धस्य शिष्याणामन्यतमोऽस्मि सङ्घन च सह यात्रार्थं प्रस्थितोऽस्मि । यदाऽहं भवन्तं भयाकुलेऽत्र स्थले शयानं वीक्षितवान् तदा भवन्तं जागरयितुमिष्टवान् । किन्तु भवान् गाढनिद्रामग्न आसीत्, अतोऽहं सहयात्रिणो विहायाऽत्रैवाऽवस्थितो भवत्पावे च रक्षार्थमुपविष्टः ।
७७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154