Book Title: Nandanvan Kalpataru 2014 04 SrNo 32
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 85
________________ पुरतः प्रवहमाने हरितवर्णे नदीनीरे आसीत् । अनिमेषनयनाभ्यां तद् विलोकमानस्य तस्य मनः पूर्णतया केवलमेकेनैवाऽभिलाषेण पूरितमासीत् - नद्यां कूदित्वा जले निमज्जनेन स्वात्मनो विलयस्य ! । स्वात्मनि अनुभूयमाना दारुणा शून्यता किलेदानीं नदीजलस्य शीतलशून्यतायां प्रतिबिम्बते स्म तस्य । आम् ! अधुना स पर्यवसाने आगत्य स्थित आसीत् । तस्य कृते इदानीं स्वात्मन एवोन्मूलनम्, अकृतार्थसंरचनस्य स्वजीवनस्य विनाशनं, प्रक्षेपणं च विनाऽन्यत् किमपि नाऽवशिष्टमासीत् । तेनाऽनुभूतं यद् देवा अपि तमुपहसन्ति स्माऽधुनेति । अतः स्वात्मनो विनाश एव तस्य गतिरस्तीति चिन्तयति स्म सः । कामं मत्स्या मकरा अन्ये जलचराश्च तस्य शरीरं भक्षयन्तु नाम, सिद्धार्थनामकस्य शुनः शरीरं, एतस्योन्मत्तस्य, भ्रष्टस्य दुष्टस्य च शरीरं, एतस्य प्रमादिनोऽपव्ययिनश्चाऽऽत्मनः शरीरम् ! कामं च राक्षसा तच्छरीरं खण्डखण्डीकुर्वन्तु नाम !! ततो विकृतेन मुखभावेन स जले दृष्टिं प्रासारयत् । तत्र च स्वमुखं प्रतिबिम्बितं विलोक्य स थूत्कृतवान् । ततो हस्तेन गृहीतं वृक्षावलम्बनं त्यक्त्वा स किञ्चित् परावृत्तः, येन कूदित्वा जले आपादमस्तकं पतेत्, नदीतलं च प्राप्नुयात् । ततः कूदितुं स किञ्चिदवनतः, अक्षिणी निमीलितवान् – मरणमभिमुखमासीत् !! अथ तावता, तस्याऽन्तःकरणस्य गहनतमप्रदेशात्, तस्य श्रान्तजीवनस्याऽतीतं भित्त्वा, स कञ्चन ध्वनिं श्रुतवान् । केवलमेक एव शब्द आसीत्, अथवा केवलमेकमेवाऽक्षरमासीत्, यच्च स किमप्यविचिन्त्याऽस्पष्टतयोच्चारितवान् । तदासीत् सर्वेषामपि प्राचीनानां वेदमन्त्राणामादिरन्तश्च - ओम् - इति, यस्याऽर्थ आसीत् पूर्णः, पूर्णत्वं वा । यस्मिन् क्षणे ओम्-इति ध्वनिस्तस्य कर्णगोचरीभूतस्तस्मिन्नेव क्षणे तस्य प्रसुप्त आत्मा जागरित इवाऽभवत्, स च सहसा स्वचेष्टिते निहितं मौख्यं ज्ञातवान् ।। एतेन सोऽत्यन्तं सन्त्रस्तोऽभवत् । अहो ! एतदर्थं सोऽत्राऽऽगत आसीत् ! स तथा मूढो जात आसीत्, तावान् व्याकुलोऽभवत्, तावांश्च शून्यचित्तो जातो यथा मृत्युमेवाऽभिकाङ्क्षन् स इहाऽऽगत आसीत् खलु ! बालिशतापूर्णैषाऽऽकाङ्क्षा तस्य चित्ते तथा प्रबलाऽभवत् यथा स शरीरं नाशयित्वा शान्ति प्राप्तुमिष्टवान् । किन्तु यदा 'ओम्'कारस्तस्य चैतन्यं व्याप्नोत्, स स्वीयं क्षुद्रत्वं दोषं च ज्ञातवान् तदा तन्मनसि प्रकटितः सर्वोऽपि सन्तापः, सर्वोऽपि मोहः, सर्वाऽपि च निराशा निष्प्रभावा अभवन् । ___पुनरपि तेन हृदय एव ओङ्कारस्य नादः कृतः फलतः परमब्रह्मणः शाश्वतचैतन्यस्य च भानं तस्याऽभवत् । यत् सर्वमपि दिव्यं स विस्मृतवानासीत् तत् सर्वमपि चेदानीं तस्य स्मृतिपथे पुनरवतीर्णम् । किन्त्वेतदपि भानं क्षणिकमेवाऽऽसीत् । यतोऽतीव परिश्रान्तः सिद्धार्थो नालिकेरवृक्षमवलम्ब्य तत्रैवोपविष्टः । तत ओङ्कारमेव जपन् स वृक्षमूले शीर्ष स्थापयित्वा गाढनिद्रया प्रसुप्तवान् । तस्य निद्रा गहना स्वप्नरहिता चाऽऽसीत् । दीर्घकालादेव स एवं नैव सुप्तवान् कदाचित् । यदा स जागृतस्तदा बहूनि वर्षाणि व्यतीतानीव प्रतिभातं तस्य । प्रवहतो जलस्य मृदुनिनादं स श्रुतवान्, किन्तु स न स्मृतवान् यत् कुत्र स इदानीमासीत्, नाऽपि, कथं सोऽत्राऽऽगतः - इति । स यदा उपरि दृष्टवान् तदा वृक्षान् नीलवर्णं चाऽऽकाशं दृष्ट्वा विस्मितोऽभवत् । ततश्च तेन स्मृतं यत् कुत्र सोऽस्ति कथं ७६ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154